________________
सर्ग १४ श्लो० २६५-२६७ ] हीरसौभाग्यम्
५९७
वरकाणकमागत्य पुरं सूरिपुरंदरः ।
वरकाणकपार्श्वेशं साक्षात्पावमिवानमत् ॥ २६५ ॥ मुरिपुरंदरो हीरविजयसरिः वरकाणकनाम्ना पाश्वयक्षस्य ईशं स्वामिन पार्श्व एवेशो विश्वनायकः तमनमन्नमस्करोति स्म । उत्प्रेक्ष्यते-साक्षात्प्रत्यक्षं स्वयमेवमुक्तेस्त्रायातं श्रीपार्श्वनाथमिव । किं कृत्वा । वरकाणकमित्यभिधानं पुरमागत्य समेत्य ग्रामनाम्नैव श्रीपार्श्वनाथाभिधानम् । श्रीशद्वेश्वरपार्श्वनाथवत् ॥
શ્લેકાર્થ શ્રીહીરવિજયસૂરિજીએ વાકાણા આવીને પાર્ધયક્ષના અધિપતિ વકાણુ પાર્શ્વનાથ ભગવંતનાં દર્શન કર્યા તે જાણે સાક્ષાત્ સદેહે પાર્શ્વ પ્રભુ જ ન હૈય ! પારદપા
आगादथाभिमुखमस्य पुरादमुष्मादागच्छतो विजयसेनगुरुग्णेन्दोः । विश्वोपकारकृतिनौ मिलितौ मिथस्तौ तीर्थाधिभूगणधराविव दिद्युत्ताते ॥ २६६ ॥
अथेत्यपराधिकारे अस्माद्वरकाणकपुरादागच्छतः शिवपुर्या समवसरतः अस्य गणे. न्दोहीरविजयसुरेविजयसेननामा गुरुराचार्यः अभिमुखं संमुखमागादाययौ तथा तौ भट्टारकाचार्यों मिथः परस्परं मिलितौ संगतौ दिद्युताते राजतः । किंभूतौ । विश्वेषां जगतां समस्तभव्यजीवानां वा उपकारो बोधिबोजदानादिस्तत्र कृतिनौ चतुरौ । उत्प्रे. क्ष्यते-तीर्थाधिभूस्तीर्थकरस्तथा गणधराविव ॥
શ્લેકાર્થ વરકાણાનગરથી શિવપુરીમાં પધારતા આચાર્યદેવ હીરવિજયસૂરિજીની સામે વિજયસેનસૂરિજી પધાર્યા. તે જાણે, તીર્થંકર અને ગણધરની જેમ જગત પર ઉપકાર કરવા માટે જ પરસ્પર મલ્યા ન હોય ! ૨૬૬
उत्तंसैरिव पत्कजैः शिवपुरी संप्राप्य भूषां परां प्रासादे च चतुर्मुखे ध्रुव इव श्रीमन्महोक्षध्वजम् । चैत्येऽन्यत्र पुनर्गजध्वजजिनं बिम्बैरनेकैः समं प्रत्यस्थापयदासपालविलसन्नेताप्रणीतोत्सवैः ॥ २६७ ॥