SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ५९४ हीरसौभाग्यम् [सर्ग १४ श्लो० २६०-२६१ पी पाढिनाम्नि स्वपुरे प्रभोर्मरुत्पुरोपमे नागपुरादुपेयुषः । तालाहसाधुळधिताकात्सवं तदा प्रदेशीब मुदान्तिमार्हतः ॥ २६० ॥ तदा तस्मिन्सूरिसमागमनावसरे पींपाढि इति नाम यस्य तस्मिन् पींपाढिनाम्नि स्वपुरे आत्मीय निवसननगरे ताला इत्याह्वा नाम यस्य तादृशः साधुर्वणिक् । तालोसाह इत्यर्थः । प्रभोहीरसुरेरधिकमतिशायिनमुत्सव व्यधित कृतवान् । प्रभोः किं चक्रुषः । नागपुरादुपेयुषः आजग्मुषः । किंभूते स्वपुरे । मरुत्पुरोपमे मरुतो देवास्तेषां पुर पत्तनममरावती तस्योपमा सादृश्यं यस्य तादृशे । क इव । प्रदेशीव । यथा केशीप्रतिबोधितप्रदेशी नामा नृपतिः अन्तिमार्हतश्चरमतीर्थकृतः श्रीमहावीरस्वामिनः छद्मस्थावयामप्रतिबद्धं विहरतः स्वपरं स्वकीयश्वेताम्बीनगर्या समागतस्यात्यभ्यधिकमहोत्सव विधत्ते स्म । किं च श्रीसूरीणामागमनावसरे आउआपुरे तालाह आसीत् । तदवसरे तु पातिसाहेरायतत्वात्पींपाढिनगरे निवसतीति तात्पर्यम् ॥ કાથી ચરમતીર્થપતિ મહાવીર પરમાત્મા ઈકોર અવસ્થામાં અપ્રતિબદ્ધ વિહાર કરતા વેતાંબી નગરીમાં પધારેલા ત્યારે પરદેશીરાજએ જેમ મહત્સવ કરેલ તેમ સ્વર્ગપુરી સમાન “પીપાડ” નામના નગરમાં પધારતા આચાર્યદેવને “તાલ સાહ' નામના શ્રાવકે પૂર્વે આઉઆ નગરમાં પ્રવેશ મહત્સવ કર્યો હતો તેનાથી અધિક ઘણા જ હર્ષપૂર્વક પ્રવેશ મહેત્સવ કર્યો. ૨૬ ग्रामाश्वद्विपताम्रखान्यधिपतिः सामन्तवद्योऽजनि श्रीमालान्वयभारमल्लतनयः श्रीइन्द्रराजस्तदा । आह्वातुं सुगुरून्स्वकीयसचिवास्तेनाथ संप्रेषिताः प्रासादे निजकारिते भगवतां मूर्तिप्रतिष्ठाकृते ॥ २६१ ॥ तदा तस्मिन् पींपाढिपुरपादावधारणप्रस्तावे श्रिया युक्त इति नामा वणिक् वर्तते । किंभूतः । श्रीमाल इत्यन्वयो वंशो यस्य तादृशो यो भारमल्लस्तस्य तनयः पुत्रः । पुनः किंभूतः। ग्रामाणां पञ्चशतीजिनानां संनिवेशानां तथा अश्वानां तुरंगमाणां तथा द्विपानां हस्तिनां तथा ताम्राणां खानेराकरस्याधिपतिः स्वामी। किंवत् । सामन्तवत् । यथा सामन्तः सीमालभूपालः कतिचिग्रामपुराधिपतिः सामान्यनृपः ग्रामाश्वद्विपखान्यधिपतिः स्यात् । राजन्यानां तु 'वागिउ' इति, यवनानां तु 'उवरो' इति प्रसिद्धस्तत्तुल्य इति । अथ प्रभोमरुदेशे समागमनानन्तरं तेनेन्द्रराजेन सुगुरून हीरविजयसूरीन आह्वातुं स्वविराटनगरे आकारयितुं स्वकीयसचिवा निजप्रधानपुरुषाः संप्रेषिताः प्रस्थापिताः । किमर्थम् ।
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy