SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ५९२ हीरसौभाग्यम् [सर्ग १४ श्लो० २५६-२५७ तस्मिञ्जगन्मल्लमहीन्द्रमन्त्री मेहाजलो नाम वणिङमहेन्द्रः । भक्तिं व्यधात्क्लुप्तमहो मुनीन्दोः पद्मावतीकान्त इवाहिकेतोः ॥ २५६ ॥ तस्मिन्नागपुरे जगन्मल्लो जगमाल इति नाम्ना महीन्द्रो राजा तस्य मन्त्री प्रधानो मेह जल इति नाम वणिक्सु नैगमेषु महेन्द्र इन्द्रसदृशः मुनीन्दोः सूरीन्द्रस्य भक्ति सेवां पर्यपासनां व्यघात् चकार । किंभृतः । क्लुप्तो निष्पादितोऽखिलपुरजन्मानार्यजनैर्मह उत्सवो येन । क इव । पद्मावतीकान्त इव । यथा धरणेन्द्रः अहिकेतोः श्री. पार्श्वनाथस्य स्वस्य नागेन्द्रपदप्रदानप्रमोदेनान्यप्रकारेण वा महोत्सवं कुर्वन् भकि विधत्ते ॥ શ્લોકાઈ જેમ ધરણેન્દ્ર મહોત્સવ પૂર્વક શ્રી પાર્શ્વનાથ ભગવંતની ભક્તિ કરે તેમ નાગપુરના રાજા જગપાલના વણિકકુલમાં શ્રેષ્ઠ મહાજલ” નામના મંત્રીએ મહત્સવપૂર્વક આચાર્ય દેવની ભક્તિ કરી. ૨પદા श्रीमज्जेसलमेरुनामनगरादागत्य संघान्वितः काष्ठागारिकमाण्डणो मुनिमणिं सौवर्णटकैर्मुदा । सिद्धौ स्वर्मणिवत्प्रपूज्य तृणयंल्लक्ष्मी पुनस्तत्पुरे नानादानविधौचितीं प्रकटयांचक्रे यथा विक्रमः ॥ २५७ ॥ काष्ठागारिकः धान्यकोष्ठाध्यक्षः लोकप्रसिद्धया 'कोठारी' माण्डणः। 'ग्रामनानोः सस्काराभावः क्वचित्' इति वचनान्माण्डणः। संस्कारे तु मण्डन इति नाम्ना वणिक् श्राद्धः तस्मिन्नागपुरे पुनरित्यन्यार्थ अन्यानां नानाविधानां दानानां स्वर्णरजताशुकोर्णायुखण्डघृताद्यनेकप्रकाराणां विश्राणनानां विधा विधयः प्रकारा वा तेषामौचितीमुचिततामौ. चित्य प्रकटयांचक्रे प्रकाशयामास । दृष्टान्तमाचष्टे-यथा विक्रमो विक्रमादित्यः नाना. दानविधौचिती प्रकटीचक्रिवान् । माण्डणः किं कुर्वन् । तत्पुरे तस्मिन्नागपुरनगरे स्वलक्ष्मी निजविभव तृणयन तृणमिव गणयन् । विविधलम्भनिकाभिर्याचकदानैश्चेत्यध्याहारः । किं कृत्वा । मुदा हर्षेण सिद्धयै महानन्दप्राप्तये मुनिमणिं हीरविजयसरिपुरंदर सौवर्णटङ्केः 'सोनइयाइ' इति प्रसिद्धः प्रपूज्याचयित्वा । किंवत् । स्वमणिवत् । यथा कोऽपि सिद्धयै स्वार्थसंप्राप्तये विभवार्थ चिन्तामणि पूजयति । किं कृत्वा । श्रीमतो लक्ष्म दुर्गादिशोभा वा विद्यते यस्मिस्तादशं यजेसलमेरुनामाभिधान यस्य तादृशान्नगरात् । जेसलमेरुपुरादित्यर्थः । आगत्य । किंभूतो मण्डनः । संघेन । यद्यपि संघशब्देन चातु. वयं गृह्यते, तथाप्यत्राधिकारात् श्राद्धश्राद्धीसार्थनान्वितः सहितः ॥
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy