SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सर्ग १४ श्लो २५४-२५५] हीरसौभाग्यम् ५९१ रीन्दोरुपरि न्युञ्छनं निर्माय तस्य साहिडुम्बकस्य सर्व गजोपकरणपरिकलितं गजं परस्य कस्यापि तादृशस्य लक्षप्रसादमन्येषां च नवतिं तुङ्गतुरङ्गमानां परेषां च वनस्वर्णमणिभूषणौर्णायुप्रमुखं प्रदत्तवानिति । स कः। यः सदारङ्गश्राद्धः सेरयोलॊकप्रसिद्धयोर्मानविशे. पयोकिं युगलं तन्मितानां खण्डानां मधुधुलीनां लम्भनिकया प्रतिमथनप्रदानेनाखिले मण्डले ख्यातः प्रसिद्धिमान जातोऽस्ति ॥ इति श्रीहीरविजयसूरिश्राद्धदानम् ॥ શ્લોકાથી તે વખતે આગ્રાનગરીમાં બે રતલ શર્કરાના દાન વડે દેશમાં પ્રસિદ્ધિ પામેલ મેડતાનગરના રહેવાસી સદારંગ નામના શ્રાવકે આચાર્યદેવની ભકિતથી હાથીઓને ઉચિત આભૂષણે અને પલાણ સહિત અરાવણ સમાન હાથી, નેવું ઘોડા, રેશમી વસ્ત્રો, સુવર્ણ અને રત્નનાં આભૂષણે વાચકોને દાનમાં આપ્યાં. ૨૫૪ मुक्त्वामात्यमिवावनीशसविधे शान्त्यादिचन्द्राभिधो पाध्यायं प्रविधाय तत्र विषये बर्षाश्चतस्रः स्वयम् । श्रीकम्मातनयव्रतीन्द्रविलसत्संघाग्रहाद्गुर्जरा दगच्छन्नागपुरे स्म तिष्ठति चतुर्मासी स नागेन्द्रवत् ॥ २५५ ॥ स मूरि गपुरे नगरे प्रसिद्ध नगरे चतुर्मासी वर्षासमयं तिष्ठति स्म । किंवत् । नागेन्द्रवत् । यथा नागानां राजा नागपुरे भोगवत्यां नगया तिष्ठति । किं कुर्वन् । श्रियाः आचार्यलक्ष्म्या कलितो यः कम्माख्यसाधोस्तनयः पुत्रो व्रतीन्द्रः सरिरेतावता विजयसेनसूरिस्तेन विलसन् शोभमानो यो गुर्जरदेशसंघः साधुसाध्वीश्रावकश्राविकारूपसमुदायस्तस्याग्रहात्पुरोधादगुर्जरानुधरित्रीपद प्रति गच्छन् प्रतिष्ठमानः । किं कृत्वा । अमात्यं सचिवमिव अवनीशस्याकब्बरपातिसाहेः सविधे संनिधाने शान्तिरिति पदमादौ यस्य तादृशं चन्द्रोपाध्यायम् । शान्तिचन्द्रवाचकमित्यर्थः । मुक्त्वा कार्यकरणार्थ संस्थाप्य पुनस्तत्र मेवातनाम्नि विषये मण्डले स्वयमात्मना चतस्रश्चतुःसंख्याकाः वर्षाः प्रावृद्कालप्रतिबद्धाश्चतुर्मासीः प्रविधाय कृत्वा । स्थित्वेत्यर्थः॥ इति मेवातमण्डलादागत्य नागपुरे चतुर्मासककरणम् ॥ બ્લેકાથ શ્રીહીરવિજયસૂરિજીએ પોતાના મંત્રી સમાન શાંતિચન્દ્ર ઉપાધ્યાયને અકબર બાદશાહ પાસે મૂકીને, મેવાડમંડળમાં ચાતુર્માસ પૂર્ણ કરીને, વિજયસેનસૂરિજી વડે શોભતા ચાતુર્વિધ સંઘના આગ્રહથી ગુજરદેશ તરફ જતા આચાર્યદેવે પ્રસિદ્ધ નાગપુર (નાગર)માં નાગેન્દ્રની જેમ ચાતુર્માસિક સ્થિરતા કરી. રપપા
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy