________________
५९०
हीरसौभाग्यम्
[सर्ग १४ श्लो० २५२-२५४
લેકાર્થ આચાર્યદેવે શત્રુ જ્યની જેમ ગેપગિરિમાં બાવનગજ પ્રમાણ શ્રીષભસ્વામીની પ્રતિમાને નમસ્કાર કર્યા. તેમજ પચાસ, ચાલીસ, પાત્રીસ, ત્રીશ અને વિશગજ પ્રમાણ બીજી પણ જિનપ્રતિમાઓનાં ભક્તિપૂર્વક દર્શન કર્યા. પરંપરા
यात्रां कृत्वात्र सुत्रामा यथा नन्दीश्वरे दिवम् ।
प्रभुर्विभूषयामास पुनरप्यागरापुरम् ॥ २५३ ॥ प्रभुः सरिरत्र गोपगिरौ यात्रां जिनपादप्रणति कृत्वा भावविधिपूर्व विधाय पुनरपि व्याघुट्य तदेवागरानाम नगर विभूषयामासालंकृतवान् । दृष्टान्तमाचष्टे-यथा सुत्रामा सौधर्मेन्द्रः नन्दीश्वरे जम्बूद्वीपादष्टमे द्वीपे भगवत्कल्याणकादिकाष्टाहिकादिषु यात्रां गीतनृत्यकारापणादिमहोत्सवं निर्माप्य पुनरपि दिवं स्वर्लोक भूषयति ॥ इति गोपगिरियात्रा।
શ્લોકાર્થ જેમ સૌઘમેન્દ્ર નંદીશ્વરદ્વીપમાં ભગવંતના કલ્યાણક મહોત્સવ આદિ મહોત્સવપૂર્વક યાત્રા કરીને સ્વર્ગલોકને અલંકૃત કરે તેમ આચાર્યદેવે ગે પગિરિની યાત્રા કરીને ફરીથી આગ્રાનગરને અલંકૃત કર્યું. રપ૩
यः सेरद्विकखण्डलम्भनिकया ख्यातोऽखिले मण्डले
श्रद्धावानिह मेदिनीपुरसदारङ्गः प्रभोभक्तितः । सोऽदान्मूर्तमिवेन्द्रकुम्भिनमिभं लक्षप्रसादं पुन
हानां नवतिं च काश्चनमणीस्वर्णा शुकाद्यर्थिनाम् ॥ २५४ ॥ तस्मिन्नवसरे इहागरानगरे सः दानशक्त्या प्रसिद्धो मेदिनीपुरस्य मेडतानगरस्य पास्तव्यः सदारङ्गनामा श्रद्धावान् श्रावकः प्रभोः सूरीन्दोरुपरि भक्तितः भक्तिवशाद्रागा. तिशयात् । अर्थिनां याचकानामिति सर्वत्र योज्यम् । मूर्त मूर्तिमन्तं भूमावागतमिन्द्रकु. म्भिनमैरावणमिव इभं गजोचितपरिकरादिकलितकरिणमदाद्ददौ । पुनर्लक्षप्रसादं 'लाखपसाय' इति जनप्रसिद्धिः च पुनर्वाहानां जात्यतुरङ्गाणां नवतिं नवतिप्रमाणानश्वान् ददिवान् । पुनः काञ्चनैः सुवर्णमणीभिः रत्नैः उपलक्षिता स्वर्ण मुद्रा अङ्गलीयकानि । 'साक्षराङ्गली मुद्रा' इति हैम्याम् । 'वेढवीटी' इति प्रसिद्धा । तथा अर्थिनां अंशुकानि नानाविधवस्त्राणि । आदिशब्दादुर्णायव: 'सखलातपामरी' इति जनप्रसिद्धाः । दत्ते स्म । श्रूयते हि-कस्मिन्नपि व्यतिकरे पातिसाहिमाणेन सूरीन्द्रः करीन्द्रमज्ञानाचाचितः । तदवसरे च करिराजसमर्पकं सकलसंघमनुनीय सदारङ्गसाधुः स्वयमेव श्रीहीरविजयसू