________________
सर्ग १४ श्लो० २३५-२३७ ]
हीरसौभाग्यम्
किमु यः कुलसंहार कृत्सोऽवश्य स्वांहसैव निहन्यते । तथा चोक्त नैषधे–'अबलस्वकुला. शिना झषान्निजनीडद्रुमपीडिनः खगान् । अनवधतृणादिनो मृगान्मृगयाघायनभूभृतां घ्नताम्' इति शैवपुरोहितमन्त्रिवचसा नृपस्त्रयाणामपि मृगयां करोति ॥
શ્લેકાથી માછલી મત્સ્યને કહેતી હતી કેઃ “હે પ્રિય મત્સ્ય, જલમાં ઘણી માછલીઓની સાથે સુખપૂર્વક કીડા કરી રહેલા તને શું બાદશાહ હણશે નહીં ! રામચન્દ્રજી સમાન ન્યાયનિપુણરાજા કુલવૈરીપણાથી અવશ્ય તારે વધ કરશે.” મે ૨૩૫
तिमिरिति कान्तां मदनविनोदी वदति मुनीन्दोर्वचनविलासात् । अनिमिषभावादिव विनिहन्तुं धरणिसुधांशुः प्रभवति नास्मान् ।। २३६ ॥
मदनेन कामेन मनाइनङ्गोदयाद्वा विनोदो विलासः स्वेच्छया विविधचेष्टा कामक्रोडा सुरतादिर्वा अस्यास्तीति मदनविनोदी तिमिर्मत्स्यः कान्तां स्वप्रेमवतीं लीलावती मत्स्यीं प्रति इति वदति जल्पति । हे प्रिये, मुनीन्दोः साधुसुधाकरस्य वचनविलासा. स्कृपाप्रपञ्चाश्चितवाचां वैचित्र्यात् धरणिसुधांशुरचला चक्रचन्द्रमाः साहिरस्मान्विनि हन्तुं न प्रभवति न समथीं भवति । धरणिशब्दो हस्वोऽपि दृश्यते नाटकशास्त्रे यथा'प्राचीभागे धरणिविरहिणि क्रान्तमुद्रे समुद्रे' इत्यादि । तथा ञ्च वाग्भटालंकारे–'मुदा यस्योद्गीतं सह सहचरीभिर्दनचरैर्मुहुः श्रुत्वा हेलोद्धृतधरणिभार भुजबलम् । दरोद्गच्छदर्भाङकुरनिकरदम्भात्पुलकिताश्चमत्कारोद्रेक कुलशिखरिणस्तेऽपि दधिरे ॥' इति । उत्प्रेक्ष्यते-अनिमिषभावाद्देवत्वादिव । 'अनिमिषो देवभीनयोः' इत्यनेकार्थः । देवदेव्यो हि मनुष्येण हन्तु न शक्यन्ते ॥ इति मत्स्यभिथुनालापः ।
કાર્ય
કામક્રીડામાં રસિક મત્સ્ય માછલીને કહે છે કેઃ પ્રિયમન્સી, સૂરીશ્વરની વાકચાતુરીથી દયાળુ બનેલે અકબર કદાપિ અમારે વધ કરશે નહીં. વળી, આપણે અનિમેષ દેવરૂપ હોવાથી દેવદેવીઓનો વધ શું મનુષ્ય કરી શકે? ૨૩૬ છે
व्याधेन वेधीकृतकाययष्टी मृगीव तत्साध्वसधावमाना । त्रासातिमात्रास्थिरनेत्रपत्रा वादालबालेत्यलपत्प्रियं स्वम् ।। २३७ ॥
वादालः सहस्रदंष्ट्रः मत्स्य विशेषस्तस्य बाला स्त्री स्वप्रियमात्मीय वल्लभमित्यलपन्नि गदति स्म । किंभूता। धावमाना पलायमाना प्रणश्यन्ती । केन । तत्साध्वसेन तस्मान्मू