________________
memuseumari
५७९
सर्ग १४ श्लो २३२-२३३] हीरसौभाग्यम्
प्राहेत्यसौ मां स नृपः कृपावान्न हन्ति जाने निजयौवतस्य । रतोत्सवोच्चासितकञ्चुकेषु कुचेषु संचारितचित्तवृत्तिः ॥ २३२ ॥
असौ चक्रवाकः स्वां प्रेयसी प्रति निरातङ्कः सन् प्राह बभाण । इति किम् । है जीवितवल्लभे द्वन्द्वचारि चक्रवाकि, कृपावान् श्रीहीरसूरीन्द्रधर्मोपदेशश्रवणात् कृपाकलितचेतोभूतः स नृपोऽकब्बरसाहिः मां नैव हन्ति निशुम्भति । अहमेव जाने वेनि। उत्प्रेक्ष्यते-इत्यर्थे जाने । निजयौवतस्य स्वतरुणरमणीगणस्य रतस्य संभोगस्यानन्दः मयसमयत्वादुत्सव इवोत्सवः तत्रोच्छसितः उच्चः कृतो हृदयादुत्तार्यान्यत्र क्षिप्तो वा कञ्चुको निचोलो येभ्यस्तादृशेषु कुचेषु पीनप्रोत्तुङ्गपयोधरेषु संचारिता संक्रामिता चित्त वृत्तिरन्तःकरणव्यापारो वर्तनं वा येन तादृश इव । विगलनिचोलचारुलोचनोच्चकुचकलशस्मरणात्तत्तुल्यत्वेनास्मान्नायं निहन्तीत्यर्थः । जाने ज्ञानार्थे इवार्थे वा इति चक्रवाकमिथुनालापः ॥
શ્લોકાર્થ
નિર્ભય બનેલે ચકવાક ચક્રવાકીને કહે છે કેઃ “હે પ્રાણવલ્લભે, કરૂણાના સાગર શ્રી હીરવિજ્યસૂરિજીના ધર્મોપદેશથી દયાળુ બનેલે અકબર મને હણશે નહીં, તે હું જાણું છું. વળી પિતાની પ્રિયતમાની સાથે સૂરતક્રીડારૂપી ઉત્સવમાં જેને કંચૂક ઊંચે ચઢી ગયેલ છે અથવા દૂર ફેંકાઈ ગયેલ હોવાથી તેના સ્તનની સાથે મારી (ચક્રવાકની) સ્મૃતિ થવાથી પણ મારો વધ કરશે નહીં
(स्तनाने 'या'नी ५मा मापामा मावे छे.) ॥ २३२ ।। प्रियाश्चकारानपि खञ्जरीटान्वदन्त्यदस्तिष्ठथ किं मुखेन । पुरा हि बध्नाति वधूविलोचनश्रियोऽधमर्णान्भवतो यतो नृपः ॥ २३३ ॥
चकोरान् ज्योत्स्नाप्रियान् खजरीटान् खञ्जनान् प्रति प्रियास्तेषामङ्गनाः चकोर्यः तथा खजरीटचटुललोचनाः अद एतद्वदन्ति निर्दिशन्ति कथयन्ति । तदेवाह-हे प्रियाः, सुखेन शर्मणा निश्चिन्ततया वा किं कथ प्रश्ने तिष्ठथ वसथ वा स्थिता था । यतः कारणा धूनां निजयुवतीनां विलोचनानां चारुचञ्चलविचित्रनेत्राणां श्रियो लक्ष्म्या अधमर्णान ग्राहकान् भवतो युष्मान नीतिनिपुणो नृपोऽसौ पुरा बध्नाति वन्स्यति बन्धं प्राप. यिष्यति गृहीतं पश्चादददानोऽधमर्णः समर्थेन उत्तभर्णेनावश्यं निगृह्यते इति लोकव्यवहारः॥
ચકોરને ચકરીઓ અને ખંજન પક્ષીઓને તેઓની પ્રિયાએ કહે છે કેઃ “હું સ્વામિન, તમે નિર્ભય થઈને કેમ રહો છો? કારણ કે તમે તેની પ્રિયાઓના સુંદર