SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ सर्ग १४ लो० २२९-२३०] हीरसौभाग्यम् ५७७ स्वां पत्नी ताम्रचूडो दरतरलदृशं हन्तुमभ्येति भूमी भास्वांस्त्वां मामपीति प्रकटितवचसं धीरयनित्यवादीत् । मा भूस्त्वं भूरिभीतेर्भवनमिह जगद्वोधकर्तृत्वशक्तिव्यक्तिप्रेमातिरेकादिव विभुवचसा ध्वंसते नायमस्मान् ॥ २२९ ॥ ताम्रचूडः कुक्कुटः स्वां स्वकीयां पत्नी कुक्कुटां कान्तां धीरयन्नाश्वासयन् सन्नित्यवा. दीत् निगदितवान् । किंभृतां पत्नीम् । हे प्राणेश्वर हे ताम्रचूड, भूमीभास्वानकब्बरसाहिः त्वामपि पुनर्मामपि हन्तु कीनासशकाशं नेतुमभ्येति आगच्छति इत्यमुना प्रकारेण प्रकटितवचस उदीरितं भर्तुः पुरः कथित दीनवचनं यया । अत एवं पुनः किंभूताम् । दरेण कृतान्त निकेतातिथीभवनभयेन तरले चपले दशौ यस्यास्तादृशम् । धीरां करोति धीरयति इति धीरयन् निर्भयां कुर्वन् । तत्कथं तदेवाह-इति किम् । हे प्राणप्रिये हे कुक्कुटि, त्व भूरिभीतेः प्रबलतमभयस्य भबनं स्थानं मा भूर्भव । यतो विभुषचसा जीवदयोपदेशादयं भूमान्नास्मान ध्वंसते न घातयति । उत्प्रेक्ष्यते-इह भूमिभुवने जगतां विश्वजनानां यो बोधः प्रतियोधनं सुप्तोत्थापनं प्रतिबोधदानं जागरणं सत्पथस्थापन वा तस्य कतृत्वं तस्य शक्तिः सामर्थ्य तस्या व्यक्तिः प्रकटता । अथ वा शक्तया कृत्वा व्यक्त्या स्फुटतया यः प्रेमातिरेकः स्नेहातिशयस्तस्मादिव ॥ इति कुक्कुटमिथुनालापः॥ શ્લેકાર્થ કઈ કુકડી પોતાના પતિને કહેતી હતી કેઃ “હે પ્રિય કુર્કટ, આ અકબર તમને અને મને યમનાં અતિથિ બનાવવા માટે જ આવ્યો છે.” પિતાની પ્રિયતમાનાં આવાં દીનવચન સાંભળીને કુકડે બોલ્યો કેઃ “હે પ્રાણપ્રિયે તું ભયભીત ના બન. પ્રભુશ્રીહીરગુરુના વચનથી આ રાજા આપણા કેઈને પણ વધ કરશે નહીં. વળી, જગતને જાગ્રત કરવાની આપણું શક્તિથી પ્રભાવિત બનેલ સ્નેહના અતિરેકથી પણ આપણે વધ કરશે નહીં. જે ૨૨૯ ऊचे हंसीति हंसं किमु तव नृपतेभीतिरभ्येति नान्त हन्ता ते यन्मृगाक्षीललितगतिपरिस्पर्धिभावादिवासौ । सोऽषि स्मित्वा शशंस श्रुतसुरसुदृशो विश्वकर्तुश्च जाने यानत्वान्मां न कश्चिद्वतिपतिवचनादीश्वरः स्यान्निहन्तुम् ॥ २३० ॥ हंसी मराठी हंस सितच्छदमित्यूचे भाषितवती । इति किम् । हे हंस प्रियतम मानसवासिन, तव भवतोऽन्तर्हदयमध्ये नृपतेः सकाशात भीतिर्भयमपि नाभ्येति नादेति । हि० सौ० ७३
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy