________________
सर्ग १४ श्लो० २१८ - २२० ] हीरसौभाग्यम्
५७१
कारणान्नृपोऽकब्बरो मृगयारसिकतया तव भवतो हन्ता घातको व्यापादयिता वर्तते । उत्प्रेक्ष्यते - कलत्राणां स्वपत्नीनां कलक्ष्म्या कटितटीश्रिया सह स्पर्धा संघर्षस्तस्यास्तया वा या क्रुध कोपस्तेन किम् अथ वा निजा आत्मीया ये गजा रणकरणधुरीणा वारणास्तेषामरित्वेन किं शत्रुभावेनेव ॥
લેાકા
વળી, કાઈ સિંહણ સિંહ તરફ ખેલી : હું પ્રિય કેસરી, તું પર્વતની ગુફામાં સુખપૂર્વક સૂઈ જા. કારણ કે શિકારને રસિક રાજા અકખર તારા ઘાત કરશે. તું અકબરની પત્નીઓનાં કટી પ્રદેશની સાથે સ્પર્ધા કરતા હોવાથી અથવા તેનાં રણશૂર હાથીઓના તું દુશ્મન હાવાથી તારા પ્રત્યેના વૈરભાવથી પણ એ તારે ઘાત કરશે.’ ॥ ૨૧૮ ।।
सिंहोऽप्याख्यत्कुरु मा भीरु भीतिं नायं हन्ति व्रतिशार्दूलशास्त्या । यद्वा शौर्याद्दलितद्वेषिनागान्हन्यादुच्चैः शिरसः संश्रितान्कः ॥ २१९ ॥
सिंहः कण्ठीरवोऽपि आख्यद्वभाषे । हे भीरु हे कान्ते केसरिणि, त्वं भीतिमातङ्क मा कुरु । 'पिव वोदच चारुलोचने यदतीतं वरगात्रि तद्गतम् । न हि भीरु गतं निवर्तते समुदायमात्रमिदं कलेवरम् (१) ॥ इत्युत्तराध्ययनवृत्तौ । यस्माद्धेतोर्व्रतिशार्दूलस्य मुनिपश्चाननस्य हीरगुरोः शास्त्या आज्ञया शिक्षया वा अयं साहिः अस्मान्न हन्ति न घातयति । यद्वा अथ वा वधविधानाभावे हेतुमप्याह - शौर्यान्निजशूरत्वेन दलिता व्यापादिता द्वेषिषु विपक्षेषु नागा मुख्या ये द्वेषिणां निजनिकृन्तनजनितामितद्वेषित्वेन वैरिणो नागा हस्तिना यैस्तान् तथा उच्चैः शिरसो महात्मनेो महर्षिकान्वा पर्वतांश्च तुङ्गश्रृङ्गान् शैलांश्च संश्रितान् पृष्ठलग्नान् सेवमानान् वा को हन्यात्कोऽपि व्यापादयेत् । अपि न कोऽपि । यदुक्तं भक्तामर स्तवे – 'हरिणाधिपोऽपि नाक्रामति क्रमयुगाचलसंश्रितं ते ' ॥
શ્લેાકાથ
ત્યારે સિંહ ખેલ્યું: હું ભીરૂ સિંહણ, તું ભય ના પામ. કારણ કે મુનિપંચાનન ( સિ’હ ) હીરવિજયસૂરિની આજ્ઞાથી તે અકબર અમારા વધ નહીં કરે. વળી, પેાતાના શૌર્યથી જેણે શત્રુ હાથીઓને હણી નાખ્યા છે તેમજ મોટા પુરુષના મસ્તકે રહેલા અથવા પર્વતની ટાચે રહેલા એવા અમારા વધ કરનાર એ અકબર કાણુ છે ? ।। ૨૧૯ ૫
वपुषा कुरुषे किमभ्यसूयां स्मयमानासनशाखिशाखया त्वम् । किमवैषि न भूवृपैति हन्तुं दयितं द्वीपिनमित्युवाच काचित् ॥ २२० ॥