________________
५७०
हीरसौभाग्यम्
[सर्ग १४ श्लो० २१६-२१८
કાર્થ વનખંડની મહિલીએ મહિષને કહ્યું કે હે પ્રિય મહિષ, ચિંતાતુર માણસની જેમ તું આનંદને ત્યાગ કર. કારણ કે પ્રાણીઓનો વધ કરવામાં તત્પર એ અકબર આવ્યો લાગે છે, જાણે સ્કંધની શોભા સાથે સ્પર્ધા કરવાથી ઉત્પન્ન થયેલા વૈરભાવને કારણે તને હણવા માટે જ આવેલે ન હોય ! ૨૧૬
इत्यवक्सोऽपि कान्तेऽधृति भूपतेर्मा कृथा यग्निदेशेन सूरीशितुः । सोऽप्यवद्येन नचक्षुषा नेक्षते यानभावेन विभ्यत्कृतान्तादिव ॥ २१७ ॥
सोऽपि हयद्विषन महिषोऽपि इत्यमुना प्रकारेण अदक् जगाद । हे कान्ते सैरभि, भूपतेरकब्बरात्सकाशादधृतिमस्वास्थ्यम् । भीतिमित्यर्थः । मा कृथा मा कुर्याः । 'माडि लुङ्,' मायोगे लुङ् स्यात् । 'मा कार्षीत् । लुशब्देन भृते सिः' इति प्रक्रियाकौमुद्याम् । तथा च हेमचन्द्रः-'मा कार्षीत्कोऽपि पापानि मा च भूः कोऽपि दुःखितः' इति वच. नाद्भविष्यदर्थे भूते सिप्रयोगः । यत् यस्मात्कारणात सूरीशितुः हीरविजयसूरीन्द्रस्य निदेशेनानुशिष्टया नोऽस्मानवद्येन पापेनासमीचीनेन चक्षुषा नेत्रीण नेक्षते न पश्यति किं पुनर्वधेच्छया तन्मा शङ्कस्व । उत्प्रेक्ष्यते-यानभावेन वाहनत्वेन कृतान्ताबिभ्यदिव । स्ववाहनपरिभवं विभाव्य ममोपरि मा कुप्यादित्यन्तकाद्भयं प्राप्नुवन्निव ॥ इति महषिमिथुनालापः॥
શ્લોકાર્થ ત્યારે મહિષે કહ્યું કે : “હે પ્રિય મહિષી, તું હવે અકબર તરફથી ભય ના રાખ, કારણ કે અકબર હીરવિજસૂરિના ઉપદેશથી પાપની સામે પણ જોતું નથી, તે અમારા વધની શંકા શું કરવી ! વળી, હું યમના વાહનરૂપે હોવાથી યમરાજાના ભયથી પણ એ મારે વધ કરી શકે નહીં. ૧૧૭
कापि प्रियं वदति वारणवैरिणीति
शेषे सुखं कथमहो गिरिगह्वरेषु । हन्ता नृपस्तव कलत्रकलतृलक्ष्मी
स्पर्धाक्रुधा निजगजारितयाथ वा किम् ॥ २१८॥ कापि वारणवैरिणी गजद्वेषिणी सिंही प्रियं स्वभार पञ्चाननं प्रति इति वदति । इति किम् । अहो कान्त केसरिन, गिरिगहूरेषु भूधराणां कंदरेषु घननिकुञ्जेषु वा यथा स्यात्तथा कथं केन प्रकारेण शेषे स्वपिषि । यस्मादित्यधिकारात्प्राक्तनमेव सर्वत्र गृह्यते ।