________________
५६८
हीरसौभाग्यम्
[सर्ग १४ श्लो० २१३-२४१
तत्र च व्यतिकरेऽटवीवियद्वारिचारियुवजानिजन्मिनाम् । संकथा विरहदाववारिमुग्मालिका इव मिथोऽत्र जज्ञिरे ॥ २१३ ॥
च पुनरमारिः प्रवर्तिता, अथ च सकलसत्त्वानां मिथश्च वार्ता प्रवृत्ता इति चश. ब्दार्थः । तत्र च व्यतिकरे तस्मिन्नेवामारिप्रवर्तनसमये अत्राकब्बरभूमण्डले जगति वा अटव्यामरण्ये। उपलक्षणाद्वनग्रामादिसंग्रहः। तथा वियति आकाशे, तथा वारिणि सलिले चरन्ति पर्यटन्ति इत्येवंशीलाः एतावता वनचारिणो मृगादयः श्वापदाः । यदुक्त पाण्डवचरित्रे-'कान्तारेऽत्र कृतान्तोऽपि श्वापदानामनापदाम् । त्वत्पुत्रभीतो नैतेषां प्रभवत्यपमृत्यवे ॥' इति । यद्यपि हैम्याम् ।। 'पशुस्तियक्चरे हिंस्रऽस्मिन्व्यालः श्वापदोऽपि' इत्युक्तम्, तथापि अन्यत्र वन्यजीवाः सर्नेऽपि श्वापदा एवोच्यन्ते इति । वियच्चारिणो मयूरादयः पक्षिणः, तथा जलचारिणो मीनादयः, तथा युवतिस्तरुणी जाया पत्नी येषाम् । 'जायाया निङ् । जायाशब्दस्य निङ्प्रत्ययः । तथा 'लोपो व्योर्वलि' इति सूत्रेण यकारस्य लोपः । पुंवद्भावः बीप्रत्ययस्य तेर्लोपः । युवजानयः तरुणीस्त्रीकाः तादृशा ये जग्मिनो जीवाः अधिकारात्पुमांसः तेषां मिथः परस्परं त्रीभिः सार्घ संकथा वार्ताः । 'त्वत्संकथापि जगतां दुरितानि हन्ति' इति भक्तामरस्तवे । 'संकथा वार्ता' इति तवृत्तिः जज्ञिरे जाताः प्रवृत्ताः । उत्प्रेक्ष्यते-विरहः स्त्रीभत्रोः इतरेतरं वियोगः स एव दावो दावानलः तत्र वारिमुचां मेघानां मालिका धोरणयः कादम्बिन्य इव ॥
ધ્યાકાથી
અમારિ પ્રવર્તન કરાયું અને સમસ્ત પ્રાણીઓની પરસ્પર વાર્તા પણ પ્રવર્તાઈ! અમારિવર્તન થતાં વનચર, ખેચર અને જલચર તરુણીઓ સહિત તરુણ પ્રાણીઓની પરસ્પર વાર્તા પ્રવર્તી. તે જાણે પતિપત્નીના પરસ્પરના વિરહરૂપી દાવાનલને શાંત કરવા માટેની મેઘમાળા ન હોય! છે ૨૧૩ છે अथ प्रथमं वनचारिणां वार्ता
काप्याचख्यौ प्रियमिति करिणी किं मत्तो मद्यप इव रमसे । नो जानीषे मृगयुमिव नृपं हन्तारं तद्बज गज गहनम् ॥ २१४ ॥
कापि अनिर्दिष्टनामा करिणी हस्तिनी प्रियं करिणमित्यमुना प्रकारेण आचख्यौ व. दति स्म । किमाचख्यौ तदेवाह-हे प्रिय हस्तिन, मद्यपो मदिरापायीव मत्तोऽतिक्षीबः सन् रमसे मया सह क्रीडसि यद्यस्मात्कारणात् त्वं मृगयुमिव प्रबलाखेटककारिणममुं नृपमकब्बरसाहिं ते तव हन्तारं घातकं नो जानीषे नो वेत्सि काकूक्त्या । तत्तस्मात्कारणात् हे गज 'जीवन्नरो भद्रशतानि पश्येत्' इति वचनात् गहनं गिरिगहरं प्रति व्रज मारणभयात्प्रणश्य याहि ॥