SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सर्ग १४ श्लो० २११-२१२ ] हीरसौभाग्यम् ५६७ ततो बन्दीमोचनानन्तरं स हीरविजयसरिः आलये वसतौ उपाश्रये जग्मिवान गच्छति स्म । किंभूतः । त्रिजगजनैः सुरासुरनरनिकरैर्गीयमानया गानगोचर नीयमानया अद्वैतया न विद्यते द्वैत युगलं सदृशोपमान यस्याः सा तया असाधारणया यशःश्रिया कीर्तिलक्षम्या अनुगतः सहितः । क इव । चक्रीष । यथा भरतक्षेत्रस्य अवनिभृतां द्वात्रिंशत्सहस्रपार्थिवानां जय श्रियानुगतः ग्रन्थकतुर्भरतक्षेत्रस्थायुकत्वेन भरतक्षेत्रस्यैव नामानीतम् । चक्री चक्रवर्ती भरतादिसार्वभौमः पुरि स्वराजधानीनगरे गच्छति । अत्रापर पाठान्तरमपि-'त्रिजगज्जनगीयमानयानुगतः सूरिशशी यशःश्रिया । वसतिं सुदृशा नवोढया परिणीतेव ततो व्यभूषयत् ॥' त्रैलोक्यलोकगीयमानया यशःश्रिया सहितः सूरिशशी वसतिमालय व्यभूषयदलंकरोति स्म । यथा परिणेता पाणिग्रहणकर्ता नवोढया तत्कालपरिणीतया सुदृशा मृगलोचनया सहितो वसतिं वाससौधं विभूषयति ॥ ફ્લેકાર્થ જેમ બત્રીસ હજાર મુગટબદ્ધ રાજાઓની જયલક્ષ્મીથી અનુસરતા ભરત ચક્રવર્તી પિતાની રાજધાનીને શોભાવે, નવપરિણીત પતિ નવેઢા સ્ત્રી સહિત વાસગૃહને શોભાવે તેમ જગતનાં સુર, અસુર અને માનવ વડે ગવાઈ રહેલા અસાધારણ યશરૂપી લક્ષમી વડે અનુસરતા આચાર્યદેવ ઉપાશ્રયમાં પધાર્યા. છે ૨૧૧ अथामारिप्रवर्तनम् पावर्तयत्पुनर्भुवो भास्वानमारिमङ्गिनाम् । मूर्धाभिषिक्तवनिजामाज्ञामशेषमण्डले ॥ २१२ ॥ भुवो भास्वान् अत्युत्कटप्रतापवत्त्वेन प्रतिपक्षक्षोणीक्षिल्लक्षाणां कल्पान्तकालोद्दण्डचण्डमार्तण्डमण्डलवदुःसहोऽकब्बरसाहिः पुनीरविजयसरेरालये पादावधारणानन्तरं स्वयं च अशेषमण्डले स्वायत्तीकृतसमस्तजनपदव्रजे अशेषाश्च ते मण्डलाश्चाशेषमण्डलाः, अशेषमण्डलानां मण्डलमशेषमण्डलम् । 'सरूपाणामेकशेषः', सरूपाणां सदृशानां शब्दानां मध्ये एक एव शिष्यते रक्ष्यते नान्य इति एकमण्डलशब्दस्य लोपः । अथ वा मध्यमपदलोपी समासः शाकपार्थिवादिवत् । अङ्गिनां प्राणिनाममारिं वधनिषेध प्रावर्तयत् प्रवर्तयति स्म । किंवत् । मूर्धाभिषिक्तवत् । यथा श्रेष्ठिसेनापतिसचिवपुरोहितसामन्तादिभिरभिषिक्तः सप्ताङ्गराज्याधिपतिबलन्यायशक्तिकलितः पृथ्वीपतिरशेषमण्डले निजामात्मीयपितृप्रदत्ते निखिले देशे आज्ञा प्रवर्तयति ॥ શ્લોકાથ ત્યાર પછી સપ્તાંગરાજ્યને અધિપતિ છત્રપતિ રાજા સમસ્ત દેશમાં પિતાની આજ્ઞા પ્રવર્તાવે તેમ અકબર બાદશાહે પિતાના સમસ્ત દેશમાં જીવોની સમારિનું (જીવરક્ષાનું) પ્રવર્તન કર્યું. જે ૨૧૨ છે
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy