________________
५६६.
हीरसौभाग्यम् [सर्ग १४ श्लो० २९०-२११
पक्षिणस्तरक्षणात्क्षोणिचक्रेन्दुना पञ्जरेभ्यो विमुक्ताः समस्ता अपि । प्राप्तवन्तः स्वनीडट्ठमान्धन्विना कार्मुकेभ्यः शरव्यं पृषत्का इव ॥ २०९ ॥
क्षोणिचक्रेन्दुना मेदिनीमण्डलचन्द्रेण पञ्जरेभ्यः पक्षिरक्षणकाष्ठमयादिस्थानकेभ्यः तत्क्षणात्सरोगमनानन्तरकालं निशीथिन्यां वा विमुक्ता मोक्ष प्रापिताः सन्तः मुकुलीकृताः सन्तः समस्ताः सर्वेऽपि पक्षिणो नैकजातिशकुन्ताः स्वनीडदुमान् निजालयकुलायस्थानदुमान् प्राप्तवन्तः समाश्रितान् केषांचित्स्थानतरवः परेषां तु भाविनः भाविनि भूतोपचारस्तु वर्तते एव । के इव । पृषत्का इव । यथा धन्विना धनुर्धरेण कार्मुकेभ्यः कोदण्डेभ्यः पृषत्काः शराः क्षिप्ताः सन्तः शरव्यं लक्ष्य वेध्य प्राप्नुवन्ति ।
શ્લેકાર્થ જેમ ધનુર્ધારી પુરુષે ધનુષ્યમાંથી ફેકેલાં બાણે લક્ષ્યને પ્રાપ્ત કરે તેમ અકબર બાદશાહે પાંજરામાંથી મુક્ત કરેલાં પક્ષીઓ ક્ષણમાત્રમાં પિતાપિતાના માળા, વૃક્ષો माह प्रारत ४२नातं मन्यां. ॥ २० ॥
तेऽपि पनीपरीरम्भिणो भाषितैर्बिभ्रतः संमदं सूरिमित्यचिरे । त्वगिरास्माभिरापे यथा निर्वृतिस्त्वं लभस्वाशिषा नस्तथा निर्वृतिम् ॥ २१० ॥ पत्नी स्वजायां पक्षिणी परीरम्भन्ते आलिङ्गन्ति इत्येवंशीलास्ते पक्षिणोऽपि संमद बन्धनागमनात्परमानन्द बिभ्रतो हृदि धारयन्तः सन्तः भाषितैः स्वस्वभाषाभिः सूरिं हीरविजययतीन्द्रमित्यमुना प्रकारेण ऊचिरे प्रोक्तवन्तः । इति किम् । हे प्रभो, यथा येन प्रकारेण त्वद्विरा श्रीमदीयया वाचा वचनेन अस्माभिनिर्वतिं स्वैरं संचारितारूप सुखमापे प्राप्त लब्धम् । तथा तेन प्रकारेण अस्माकमाशिषा मङ्गलशंसकवाचा त्व नि.
तिं मानसिक सौख्यं मुक्तिसुख च लभस्व प्राप्नुहि । प्रायोऽव्यक्तानामाशीक फलेप्रहिर्भवेत्तेनावश्यं त्वं निर्वृतिं लप्स्यसे ॥ इति पक्षिमोचनम् ॥
કાર્થ પિતાની પક્ષિણીઓને આલિંગન કરી રહેલાં પક્ષીઓ અત્યંત આનંદને ધારણ કરતાં પિતાની ભાષામાં સૂરિજીને આ પ્રકારે કહેતા હતા : હે પ્રભે, આપની વાણીથી અમને મુક્તિ પ્રાપ્ત થઈ તેમ અમારી આશિષથી આપ પણ મુક્તિ (મોક્ષ) પ્રાપ્ત કરો ! | ૨૧૦ |
त्रिजगज्जनगीयमानयानुगतोऽद्वैतयशःश्रियालये । भरतावनिभृज्जयनिया पुरि चक्रीव ततः स जम्मिवान् ॥ २११ ॥