________________
५६४
हीरसौभाग्यम् [सर्ग १४ श्लो० २०३-२०६
यथा दफरखानेन स्तम्भतीर्थे प्रमोदतः । मुनिसुन्दरसूरीन्दोदिगोकुलसंकटः ॥ २०४ ॥ गुणश्रेणीमणीसिन्धोः श्रीहीरविजयप्रभोः ।
जगद्गुरुरिदं तेन बिरुदं प्रददे तदा ॥२०५ ॥ तदा तस्मिन्नवसरे तेन प्रमुदितेनाकब्बरसाहिना शमदमार्जवामार्दवादीनां गुणानां श्रेण्य एव मण्यो रत्नानि तेषां सिन्धोः समुद्रस्य श्रीहीरविजयाभिधानस्य प्रभोः सूरी. न्द्रस्य अयं जगद्गुरुरिदं बिरुदं प्रसिद्धिकृन्नाम विशेष प्रददे दीयते स्म दत्तम् । केनेव । आघाटनगरक्षोणीशक्रेणेव । यथाधुना 'आहड' इति प्रसिद्धस्य मेदपाटमण्डलमण्डनस्याघाटनगरस्य क्षोणीशक्रेण भूमीन्द्रेण राणकेन द्वादशसंख्याकानि वत्सराणि यावत् आचाम्लानां तपोविशेषाणां कर्तुः कारकस्य जगच्चन्द्रनाम्नो व्रतीशितुः सरिराजस्य तपा इति बिरुदं ददे । पुनः केनेव । दफरखानेनेव । यथा स्तम्भतीर्थे तन्नगरनायकेन दफरनाम्ना खानेन यवनाधिपतिना प्रमोदतो हर्षातिशयतः सहस्रावधानिनो मुनिसुन्दरनाम्न सूरीन्दोराचार्यचन्द्रस्य वादिगोकुलसंकट इति बिरुदं दत्तम् ॥ त्रिभिर्विशेषकम् ॥ इति जगद्गुरुबिरुदम् ॥
લોકાર્થ
જેમ પૂર્વે મેવાડદેશમાં આવેલા “આહડ” નામના નગરનાં રાણાએ બાર વર્ષ પર્યત આયંબિલતપ કરનારા જગચ્ચન્દ્રસૂરિને “તપા” નામનું બિરૂદ અર્પણ કર્યું હતું, અને સ્તંભન તીર્થના દફરખાન રાજાએ હર્ષથી સહસ્ત્રાવધાની મુનિસુંદરસૂરિજીને “વાદિગેકુલસંકટ” નામનું બિરૂદ અર્પણ કર્યું હતું, તેમ તે અવસરે અત્યંત ખૂશ થયેલા અકબરે ગુણરત્નસાગર હીરવિજયસૂરિજીને “જગદ્ગુરૂ”નું બિરૂદ અર્પણ કર્યું.
॥ २०३ ॥ २०४ ॥ २०५ ॥
नीत्वास्तोकान्बन्दीलोका श्रीमत्सूरेः पादोपान्ते । प्रोज्झांचक्रे क्षोणीशको देहीवांहोव्यूहांस्तीर्थे ॥ २०६॥
क्षोणीशकोऽकब्बरसाहिः श्रीमान साहिविहितसंमानदानकुललक्ष्मीकलितो हीरविजयनामा सूरिस्तस्य पादोपान्ते चरणसमीपे नीत्वा आनीय अस्तोकान बहून बन्दीलोकान् कारागारनिक्षिप्तजनान् प्रोज्ज्ञांचके बन्दीतो निष्करदण्डान् कृत्वा मुत्कलान मुञ्जति स्म । क इव । देहीव यथा भव्यजीस्तोथै श्रीशgजये अन्यतीर्थे वा अंहोव्यूहान्निजदुरितसंघातान्मुश्चति निष्पापो भवेत् ॥