________________
सर्ग १४ श्लो २०१-२०३] हीरसौभाग्यम्
५६३
निरपराधवन्यग्राम्यजन्तूनां वधं न करिष्ये । किंवत् । भवद्वत् । यथा भवन्तः कदाचिन्मृगयां न कुर्वन्ति, अथ सर्वप्राणातिपातविरतत्वात्सापराधनिरपराधजीववधं सर्वथा न विदधते, अहं तु गृहमेधित्वाद्धरणीधरत्वेन दुष्टादुष्टनिग्रहपालनधर्मत्वान्निरपराधजीववध न निर्मास्ये । अथ मृगयान्यसत्त्ववधनिषेधानन्तरं सर्वे समस्ता अपि जलजाः स्थलजा वनजा नगरग्रामजाश्च मत्स्यादयो मृगादयः श्वापदा गोमहिषमेषादयश्च सत्त्वाः प्राणिनः सुखिनः सौख्यभाजः वसन्तु भवन्तु । पुनः स्वैर स्वेच्छया रमन्तां क्रीडन्तु । स्त्रीभिः समं च पुनः स्वैरं चरन्तु भक्षणसंचरणादि कुर्वन्तु । त्रिष्वप्युक्तिषु मद्वत् । यथाहं सुखी व स्वैर रमे स्वेच्छया चानि चरामि विलसामि च ॥ इति मृगयानिषेधः ॥
શ્લાકા
હે ગુરુદેવ, હું પહેલાંની જેમ કયારેય પણ શિકાર કરીશ નહીં, આપની જેમ નિરપરાધી જીવાની કયારે પણ હિંસા કરીશ નહીં, વળી મારી જેમ સ પ્રકારનાં જીવા સુખપૂવ ક રહે ! સ્વેચ્છાપૂર્ણાંક ક્રીડા કરો ? અને સ્વતંત્રપણે ચરલક્ષણ આદિ કરે! ॥ ૨૦૧૫
प्रागागमे प्राभृतवत्किमेषां कार्यं मया चिन्तयतेति चित्ते । प्रवर्तितासौ नवरोजघस्रामारिः क्षितौ खेलनकौतुकेन ॥ २०२ ॥
हे सूरयः, क्षितौ पृथिव्यां खेलनकौतुकेन क्रीडा कुतूहलेन कृत्वा असौ सर्वजनसाक्षाकारिणी प्रत्यक्षा वा श्रीमदुचिता श्रीमन्निमित्त प्राभृतरूपा मया नवरोजनाम्नां घस्राणां दिनविशेषाणाममारिः कोटिकाद्यानामपि जीवानां वधनिषेधः प्रवर्तिता मया कृता मत्सेवकैश्च कारिता प्रकटीकृता वा । मया किं कुर्वता । एषां जगन्मान्यानां षटुकाय गोपालानां सूरीणामागमे आगमने मन्नगरसमीपे समवसरणे प्राभृतवत् ढौकनमिव प्राक् पूर्व किं कार्य विधेयम् । कर्तव्यमित्यर्थः । इत्यमुना प्रकारेण चित्ते स्वमनसि चिन्तयता विचारयता ॥ इति नवरोजनामामारि प्रदान गुरोः ||
શ્લેાકાથ
હે આચાય દેવ, પૃથ્વી ઉપર ક્રીડા કરવામાં કૌતુકી એવા મે જગતપૂજ્ય એવા આપના આગમન સમયે ભેટાંરૂપ કાંઈપણુ કરવુ જોઈએ, એમ વિચારીને મે' સેવકે દ્વારા રાજાના નવ દિવસેામાં આ ‘અમારિ પ્રવતન” કરાવ્યું હતું. ॥ ૨૦૨ ॥
आघाट नगरक्षोणीशक्रेणेव तपा इति ।
द्वादशाब्दा चाम्ल कर्तुर्जगचन्द्रवतीशितुः ॥ २०३ ॥