________________
सौभाग्यम् [ सर्ग १४ श्लो० १९९-२०१
कारणादेषामनुचराणां यावद्यनानाममारिर्जीवदया न रोचते न स्वदते । लुब्धकानिवैतान् जीवानुकम्पा न प्रीणाति इत्यर्थः । केव । चन्द्रचन्द्रिकेव । यथा चान्द्रस्य सुधारुचे - चन्द्रिका कौमुदी मलिम्लुचानां चौराणां न रोचते । दन्तानामपि चन्द्रिका स्यात् । यथा 'दशनचन्द्रिका व्यवभासितम्' इति रघौ प्रोक्तमास्ते । तन्निरासार्थं चन्द्रचन्द्रिकेति ग्रहणमत्र ||
५६२
શ્લેાકાથ
હે ગુરુદેવ મારાં સર્વે સેવકે રાક્ષસેાની જેમ માંસાહારી છે, તેથી જેમ ચાર લેાકેાને ચન્દ્રની ચન્દ્રિકા ન ગમે, તેમ તેઓને આવી જીવદયા ગમતી નથી. !! ૧૯૯ ॥
शनैः शनैस्तेन मया विमृश्य प्रदास्यमानामथ सर्वथैव । दत्तामिवैतामवयान्तु यूयममारिमन्तर्महतेव कन्या ॥ २००॥
हे पूज्याः यस्माज्जीवदया मुद्गलानां म्लेच्छानां न रोचते तेन कारणेन त्रिकरणशुद्धचैव दानाभिप्रायेण विमृश्य अमारिप्रदानयोग्य दिवसादीनां विचारं विधाय शनैः शनैर्मन्द मन्द मस्तकैरिव दिनैः प्रदास्यमानामेतां श्रीमदुक्ताममारिं जीवपालनरुपां सर्वथा सर्वप्रकारेणैव यूयमन्तश्चित्ते दत्तामेवावयान्तु जानन्तु । कामिव । कन्यामिव । यथा महता उत्तमेन । 'अमोघा महतां वाणी' इति वचनात् । तथा च ' कूर्म कुलाचलफणिपतिविघृतापि चलति वसुधेयम् । प्रतिपन्नमचलमनसां न चलपुंसां युगान्तेऽपि ॥' इत्यपि वचनाच्च प्रदास्यमानां स्वयं मनसि कल्पितां कथितां वा दत्तामिव ज्ञायतेऽवश्यम् ॥ इति गुरोः पुर इत्यग्रे जीवामारिप्रदावकथनम् ॥
શ્લેાકાથ
હૈ પૂજ્ય, તે માટે મે' અમારિ પ્રદાનના દિવસેાના વિચાર કરીને, ધીમે ધીમે આપે કહેલી ‘અમારિ' આપના હૃદયમાં, ઉત્તમ પુરુષોનાં કન્યાવાશ્વાનની જેમ સપ્રકારે यापेसी छे, खेभ भगुलेः अरण है महापुरुषानी वाली अभोध होय छे.' वणी, अयमो, મેરૂ અને શેષનાગ વડે ધારણ કરાયેલી પૃથ્વી પણ કોઈ અવસરે ચલિત થાય પરંતુ ઉત્તમ પુરુષાનાં આપેલા વચના યુગાન્તે પણ ચલિત થતાં નથી. ૫ ૨૦૦ ॥
प्राग्वत्कदाचिन्मृगयां न जीवहिंसां विधास्ये न पुनर्भवद्वत् ।
सर्वेऽपि सत्त्वाः सुखिनो वसन्तु स्वैरं रमन्तां च चरन्तु मद्वत् ॥ २०९ ॥
गुरो, अहं कदाचित् कस्मिन्नपि समये मृगयामाखेटकं न विधास्ये । किंवत् । प्राग्वत् ।
यथा पूर्व श्रीमन्मिलनात्प्रथमं मृगयां कुर्वाणोऽभवं तत्पुनर्मृगयां विनापि जीवहिंसां