________________
सर्ग १४ श्लो० १९७-१९९] हीरसौभाग्यम्
५६१
अनेहसीव युग्मिनां न कोऽपि के हनिष्यति । कदाचिदीदृशं दिनं समेष्यति क्षितौ प्रभो ॥ १९७ ॥
हे प्रभो, कदाचित् कस्मिन्नपि प्रस्तावे क्षितौ पृथिव्यामीदृशं दिनमेवंविधो वासरः समेष्यति समायास्यति । यस्मिन् समये दिवसे वा कोऽपि लघुवृद्धोऽपि सिंहव्याघ्रादिहिं. सकोऽपि कमुत्तुङ्गमपि जन्तु न हनिष्यति नैव व्यापादयिष्यति । कस्मिन्निव । अनेहसीव । यथा युग्मिनां युगलिकानां समरे अवसर्पिण्याः प्रथम द्वितीयतृतीयारकलक्षणे काले कोऽपि न हन्ति ॥ इति सर्वजगज्जन्तुकृपाविषयः प्रश्नः॥
શ્લોકાર્થ જેમ યુગલિકેના સમયમાં (અવસર્પિણીના પ્રથમ અને દ્વિતીય આરામાં) કેઈપણ જીવ કેઈને પણ હણતાં નહી, તેમ હે પ્રભ ? આ પૃથ્વી ઉપર કેઈપણ સમયે એવો દિવસ આવશે કે જે દિવસે સિંહ, વાઘ આદિ હિંસક પ્રાણી બીજા ને હણશે નહીં.
છે ૧૯૭ છે
कलौ युगे पाप्मपूणे दुर्लभं दिनमीदृशम् । इत्युक्ते गुरुणा किंचिद्विचिन्त्येत्यब्रवीन्नृपः ॥ १९८ ॥ पाप्मभिर्दुष्कृतैः पूणे भरिते कलौ ईदृशं श्रीमदुक्त जगज्जन्तुहितावहमहो दुर्लभ दुःप्राप्यम् । गुरुणा इत्युक्ते कथिते सति किंचिद्विचिन्त्य चिचारयित्वा नृप इत्यग्रेवक्ष्यमाणमब्रवीज्जगाद ॥
શ્લેકાર્થ કહે રાજન, પાપપૂર્ણ કલિયુગમાં એ સુવર્ણદિન બહુ દુર્લભ છે !” આ પ્રમાણે આચાર્યદેવે કહેતાં કંઈક વિચાર કરીને બાદશાહે કહ્યું: ૧૯૮ છે
पलाशतां बिभ्रति यातुधाना इवाखिला अप्यनुगामिनो मे ।
अमारिरेषां न च रोचते क्वचिन्मलिम्लुचानामिव चन्द्रचन्द्रिका ॥ १९९ ॥ हे गुरो, मे मम अखिलाः समस्ता अपि अनुगामिनः सेवकाः। 'सहायोऽभिजनोऽश्वजीविगामिचरवाः । सेवकोऽथ' इति हैम्याम् । मद्रलप्रस्थानादधयो यवनाः पलाशतां पलं मांसमश्नन्ति खादन्तीति पलाशास्तेषां भावः मांसभुक्त्व बिभ्रति । मांसाशिनः सन्तीत्यर्यः । के इव । यातुधाना इव । यथा राक्षसाः पलादतां दधते । च पुनरत एव हि० सौ० ७१