________________
सर्ग १४ श्लो० १८७-१८८]
हीरसौभाग्यम्
शापेन कस्यापि मुनेरिवानिशं निरुध्यमाना विविधाः खगा मया । निर्मुक्तिभाजो भवदीयभाषितैरेते स्वतंत्र विचरन्तु सत्वरम् ॥ १८७ ॥ .
हे प्रभो, एते विविधा नानाजातीया अनेकजातिजन्मानो मयूरशुकसारिकाकाकपिकचकोरप्रमुखाः खगाः विहंगमाः भवदीयैः श्रीमत्संबन्धिभिः भाषितैः कथितैः निर्मुक्तिं बन्धनं परेभ्यो मोक्ष भजन्तीति निर्मुक्तिभाजः मया विमुक्ताः सन्तः सत्वरं शीघ्र स्वतंत्र स्वेच्छया विचरन्तु सुखं स्वैरमितस्ततो व्रजन्तु विशिष्ठां मनोभिलषितां वा चूर्णि कुर्वन्तु । खगाः किं क्रियमाणाः । मया अनिशं निरन्तरं निरुध्यमानाः पञ्जरादिषु प्रक्षिप्य संरक्ष्य. माणाः रोधं प्राप्यमानाः । उत्प्रेक्ष्यते-कस्यापि कोपनस्य दुर्वासःप्रमुखस्य कस्यचिदनिदिष्टनाम्नी मुनेस्तापसस्य आक्रोशवाक्येनेव अनिष्टवद्वसेत् ॥ ..
શ્લેકાર્થ - હે પ્રભો, દુર્વાસા આદિ કઈ ક્રોધી તાપસ વડે અપાયેલા શાપની જેમ મારા વડે પાંજરામાં કેદ કરાયેલાં પક્ષીઓને આપનાં વચનથી હું બંધનમુક્ત કરું છું. ભલે, તેઓ સત્વરે સ્વેચ્છાપૂર્વક વિચારે છે ૧૮૭ છે
भास्वत्करा इव मृदूरभुवः समेता
गृहीत दन्तिहयहेममुख न किंचित् । तेन प्रसाद्य किमपि स्वविधेयमेष प्राप्यः कृतार्थपदवीमिति भूभुजोचे ॥१८८॥
भूभुजा साहिना इत्यमुना प्रकारेण ऊचे कथ्यते स्म । इति किम् । हे श्रीसूरयः, यूयं सु अतिशयेन दूरभुवः दविष्ठस्थानादगन्धारपुरान्मदाकरणवशात्समेताः इह पादावधारिताः । के इव । भास्वत्करा इव । यथा सूर्यकिरणा अतिदूरादृशाधिकाष्टयोजनशतस्थायुकार्कमण्डलादायान्ति । अथ वा गमनानन्तरं मया प्रदीयमानं दन्तिनो मदोद्धुरगन्धसिन्घुराः, हया जात्यानेकजातीयोत्तुङ्गतुरंगमाः, हेम स्वर्णम्, तत्प्रमुस्त्रं तदादिकं किंचिन्न गण्हीत नादध्वम । तेन कारणेन किमपि स्वविधेयमात्मीयकार्य प्रसाद्य प्रसन्नीभूय कथ. यित्वा एषोऽहं कृतार्थपदवीं कृतकृत्यतां प्राप्यो लम्भयितव्यः ।।
શ્લોકાર્થ હે પ્રભે, જેમ સૂર્યનાં કિરણે આઠસો દશ એજન રૂપ અતિ દૂર પ્રદેશથી આવે છે તેમ મારા વડે બોલાવાયેલા આપ અતિ દૂર દેશથી પધારેલા છે છતાં ગજ, અશ્વ,