________________
सर्ग १४ श्लो १८२-१८५]
हीरसौभाग्यम्
५५३
ગુણોની જેમ આચાર્યદેવમાં રહેલા સમ, દમ, દયા, દાન અને પરોપકારિતા આદિ અસાધારણ ગુણની પ્રશંસા કરી. તે ૧૮૨ मनसा साहिः किं प्रशशंस । तदेवाहप्रावीण्यमन्यहितकर्मणि पश्यतैषां
तथ्य यतो व्यवसितिर्महतां परार्था । विश्वं शशीव धवलत्यखिलं कलाभि
रम्भोभरैर्जलधरोऽपि धरां धिनोति ॥ १८३ ॥ मर्धा दधाति बसुधां भुजगाधिराजो
नैःस्थ्यं निहन्ति मणिरध्वरभागभाजाम् । आमोदयन्ति हरितो हरिचन्दनानि
भिन्दन्ति संतमसमम्बरकेतवोऽपि ॥ १८४ ॥ साला दिशन्ति च फलानि पचेलिमानि
वावंशा अपि वहन्ति पयःप्रवाहान् । विश्वोपकारकरणैकनिबद्धक:
रेभिर्बभूव वसुधा किमु रत्नगर्भा ॥ १८५ ॥
एषाममीषां सरीणामन्येषां स्वव्यतिरिक्तानां जन्तूनां हितकर्मणि इष्ठनिर्मापणे प्रावीण्यं चातुर्य पश्यत भो लोकाः, विलोकयत । यतः कारणान्महतामुत्तमानां व्यवसितियापारः प्रयत्नो वा परेषामेवार्थः प्रयोजनं यस्यास्तादृश्य इति । तथा सत्यां तदेव दर्शयति-शशी चन्द्रमाः कलाभिश्चन्द्रिकाभिः कृत्वा विश्व जगद्धवलत्युज्ज्वलीकरोति । किंभूतं विश्वम् । अखिलं समस्तमपि । अपि पुनर्जलधरो मेघोऽपि अम्भोभरैर्वृष्टिरूपैः पयःसमूहः कृत्वा धरां वसुधां भूमी धिनोति निदाघदाघनिवारणनवाङ्करनिकुरम्बकरणादिना प्रीणयति । पुन(जगाधिराजः शेपनागेन्द्रो भूम मस्तकेन वसुधां दधाति बिभर्ति । पुनरध्वरभागभाजामध्वराणां यज्ञानां भागमंशं भजन्तीति देवाः क्रतुभुक्त्वात् । 'स्वाहास्वधाक्रतुसुधाभुज आदितेयाः' इति हैम्याम् । 'मखांशभाजां प्रथमो निगद्यसे' इति रघौ । 'मुखं मखास्वादविदां वदन्ति' इति नैषधे । मखास्वादविदां देवानां मुखं वद्विरित्यर्थः । 'बहिर्मुखा निमिषदेवतनाकिलेखाः' इति हैम्याम् । तेषां सुराणां मणिश्चिन्तारत्नम् । नैःस्थ्यं दारिध्र निहन्ति नाशयति । पुनहरिचन्दनानि श्रीखण्डपादपाः हरितो दिश आमोदयन्ति सौरभयन्ति सुरभीकुर्वाणाः सन्त आमोदयन्ति सप्रमोदान कुर्वन्ति हर्षयन्ति पुनरम्बरकेतवो भास्कराः हि० सौ० ७०