________________
८६
सौभाग्यम्
अस्तम्भ वैरिनृपदोर्युगदण्डदर्पः सन्दर्प इव गारुडस्य मन्त्रैः ॥ २६ ॥
[ सर्ग १० श्लो० २६-२७
धरेन्दोर्वसुमतीवासतेयीपतेः प्रसृमरैः सकलदिक्चक्रविस्तरणशीलैरश्रान्तमनवरतवाद्यवा दकमान वैर्दण्डैर्वाद्यवादनयष्टिभिर्निहतानि ताडितानि तथा आहवे तंग्रामाङ्गणेषु वादनीयानि वादयितुमुचितानि यानि वाद्यानि रणतूराणि अन्यवादित्राणि वा तेषां स्वरैर्निर्घोषैः कर्तृभिवैरिणोऽकब्बरसाहेरसहजा एव नृपाः पार्थिवास्तेषां दोर्युगदण्डानां भुजयामलकुटानां जान्वायतत्वेन दण्डाकारत्वाद्दण्डास्तेषाम् अथ वा बाहुइन्द्रानां सैन्यानां च चक्रगरुडादिव्यूहानां वा अश्वानां प्रतिनृपतियानरत्नतुरङ्गमाणां वा उपलक्षणादश्ववाराणां गजरथारोरिणां च । 'दण्डः सैन्ये दमे यमे ॥ मानव्यूहे ग्रहे भेदेष्वश्वऽर्कानुचरे मथि । प्रकाण्डे कुठे कोणे चतुर्थोपायवर्गयोः ॥' इत्यनेकार्थः । दर्पोऽभिमानोऽस्तम्भि स्तम्भ्यते स्म निराकृतः । जडीकृताः सर्वे ऽपीत्यर्थः । कैरिव । मन्त्रैरिव गारुडं स्थावरजङ्गमविषनिवारणप्रवशसन्त्रतन्त्रादिशास्त्रमर्थ्यते वेत्ति वेति गारुडिकः तस्य मन्त्रैर्जाङ्गुलीप्रमुखैः सर्पेन्द्रस्य नागराजस्य दर्पो गर्यो विषबेगाहंकारः स्तम्भ्यते ॥
લાકા
સતત દંડથી વગાડવામાં આવતા રણસંગ્રામનાં વાજીંત્રાનાં પ્રસરતા ધ્વનિથી, રણસંગ્રામમાં અકબરના શત્રુરાજાએનાં ભુજાબળનું અભિમાન સ્તંભિત થઈ ગયું. જેમ ગારુડીના મંત્રાથી નાગરાજના અહંકાર ઓસરી જાય તેમ શત્રુરાજાઓના અહંકાર આસરી ગયા ! ॥૨૬॥
यत्कीर्तिविद्विषदकीर्तिहतप्रतीपासृक्पडितजह्नुतरणिद्रुहिणाङ्गजाभिः । जन्यावनीयदवनीशशिन स्त्रिवेणी
सङ्गः किमाबिरभवत्त्रिदिवाभिकानाम् ॥२७॥
यस्यासावकब्बराभिधानस्यावनीशशिनो वसुधासुधांशोर्जन्यावनी संग्राममेदिनी । उत्प्रेक्ष्यते— त्रिदिवाभिकानां सुरलोकाभिलाषुकाणाम् । 'कामुकः कमिता कम्रोऽनुकामन्यिताभिकः' इति हैम्याम् । वीराणां तिसृणां वेणीनां तरङ्गिणीप्रवाहानां सङ्गो मिलनं गङ्गायमुनासरस्वतीसङ्ग इव आविरभवत् प्रकटीबभूव । वनिकाभिः कृत्वा यस्य साहेः कीर्तिः प्रसरशस्तथा विद्विषामकब्बर पातिसाहिपुरो रणे भग्नानां प्रत्यर्थिपार्थिवानामकीर्तिरपयशः । तथा च हता अकब्बरनरेन्द्रेणैव रणाङ्गणे व्यापादिता ये प्रतीपाः परिपन्थिपृथिवीनाथास्ते.