________________
८४
हीरसौभाग्यम्
सर्ग १० श्लो ० २३-२४
द्रेकभावं वहन्तो बिभ्राणा इव । अत एव किंलक्षणाः । संवासेनाकब्बरसाहिदेहे सम्यग्वसनेन सहस्थानेन वा कृत्वा संगता मिलिताः समागता वा ये गुणाः शौर्योत्साहसत्त्वादयस्ते प्रगुणीभवन्तः प्रगल्भा जायमानाः । 'यादृशैः सहवासः संगतिस्तादृशा एवायान्ति गुणाः' इति लोकप्रसिद्धिः । यदुक्तं च-'जो जारिसेण संगं सो वि हु तारिसो होइ । कुसुमेहिं सह वसंता तिलावि तग्गं धिया हुंति ॥” इति सूत्रोक्तिः ॥
લોકાર્થ અકબરનાં શરીરનાં સહવાસથી આવેલા શૌર્યતા, સાત્વિકતા, સાહસિક્તા આદિ ગુણે, જાણે પ્રગટ થયા હોય, અથવા બાદશાહનાં ઉધત શત્રુઓને યમસદન પહોંચાડવા માટે જાણે ઉત્કંઠતા ધારણ કરાઈ હોય તેમ અકબર બાદશાહની રેમરાજી. ઉલ્લસિત થઈ. પારકા
एतदिनेशशशिभूदिनयामिनिभ्यां __ सृष्टिं विधातुमखिलां विभुना न वैश्वीम् । तादृग्दिनेन्दुदयिताकृतये किमेत
तेजोयशोरविविधू विधिना प्रणीतौ ॥२४॥ विधिना विश्वसृजा विधात्रा तादृश्योरतिमहत्योर्विगलितावधिसमयाभ्युदयभाजोदिनेन्दुदयितयोदिवसनिशयोः कृतये निर्माणाय । उत्प्रेक्ष्यते-एतस्याकब्बरसाहेस्तेजः प्रतापः । 'निजस्य तेजः शिखिनः परःशताः' इति नैषधे । तथा 'एतस्योत्तरमद्य नः समजनि त्वत्तेजसा लङ्घने' इत्यपि नैषधे । 'त्वत्तेजसां भवत्प्रतापानाम्' इति तवृत्तिः तथा यशः प्रलोकस्तावेव रविविधू सूर्याचन्द्रमसौ प्रणीताविव निर्मापिताविव । किंभूतेन विधिना । एताभ्यां प्रत्यक्षलक्ष्यं विद्यमानाभ्यां दिनरजन्योर्गमागमं कुर्वाणाभ्यां दिनस्य वासरस्य ईशः पतिः । यत:-'परविषयाक्रमणकलाकलाधरस्यैव विषयमायाति । रजनिपतिर्भजति दिनं दिवसपतिर्भजति नो रजनीम् ॥ इति सुभाषितोक्तेः । दिननायको भास्करः शशी मगाइस्ताभ्यां सकाशादभूरुत्पत्तिर्ययोस्तादृश्यौ दिनयामिन्यौ वासरविभावों ताभ्यां क्रत्वा अखिलां समस्तामपि समग्रामपि वैश्वी जगत्संबन्धिी सृष्टिं सर्ग निर्माणं कर्तु रचयितुं न विभुना तयोर्द्वयोः प्रत्येकं चतुर्यामत्वेनाल्पत्वान्न समर्थेन ॥
શ્લેકાર્થ સૂર્ય અને ચંદ્રથી જેમની ઉત્પત્તિ છે તેવા દિવસ અને રાત્રિથી સમસ્ત જગતની સૃષ્ટિ રચના માટે બ્રહ્મા સમર્થ બન્યા નહિ, અર્થાત્ પ્રત્યેકનાં ચાર પ્રહર હોવાથી તે