SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सर्ग १० श्लो ० २१-२३ ] हीरसौभाग्यम् ८३ પ્રાદુર્ભાવ થવાથી આકાશમાં વારંવાર ઉછળતા હતા અથવા ફાળ ભરતા હતા, તે જાણે પૃથ્વી ઉપર પોતાને પરાભવ થવાથી, પિતાનાં સ્વજન-બંધુ એવા સૂર્યના અશ્વોને આશ્રય કરવા માટે ઉત્કંઠિત થયા ન હોય ! તારા एतत्कृपाणनिहताहितकुम्भिकुम्भ निष्पातिमौक्तिकततिः समरे विरेजे । दृष्ट्वा हतान्स्वपतिभूमिपती स्तदीय लक्ष्मीक्षणप्रपतदश्रुकणावलीव ॥२२॥ एते अकब्बरसाहिना कृपाणेन निजचन्द्रहासयष्टिना कृत्वा निहता व्यापादिता विदारिता ये अहितानां स्वप्रतिपक्षाणां कुम्भिनां भद्रजातिजातानां कुम्भाः शिरःपिण्डास्तेभ्यो निष्पतति निर्गलति निःसरतीत्येवंशीला निष्पातिनी मौक्तिकानां मुक्ताफलानां ततिर्मालिका समरे संग्रामाङ्गणे विरेजे राजते स्म निर्बभौ । उत्प्रेक्ष्यते-स्वस्यात्मनः पतीन्नायकान् भूमिपतीन्धरणीरमणान् हतानादकब्बरेण स्वविरोधितया यमातिथीकृतान्दृष्ट्या व्यालोक्य तदीयलक्ष्मीणां प्रत्यर्थिपार्थिवसंबन्धिनीनां श्रीणाम् । राज्यलक्ष्मीणामित्यर्थः । ईक्षणेभ्यो विलोचनेभ्यः प्रपतन्ती प्रकर्षणाविरलधाराधराम्बुधारायमाणधारं निःसरन्ती अश्रुकणानां बाष्पबिन्दूनामावलीव धोरणिरिव ॥ , કલેકાથ સમરાંગણમાં બાદશાહનાં ચંદ્રહાસ ખગથી વિદારણ કરાયેલા શત્રુરાજાઓના હાથીઓના કુંભસ્થલમાંથી નીકળી પડેલા મૌકિતકે શેભે છે, તે જાણે પિતાના પતિ રાજાઓને યમશરણ થયેલા (મરણ પામેલાં) જોઈને શત્રુરાજાઓની રાજ્યલકમીની આંખમાંથી વહી રહેલી અશ્રુધારાનાં જલબિંદુઓની પંક્તિ ન હોય ! પરરા रोमाकुराः समिति यस्य समुच्छ्वसन्ती संवाससंगतगुणप्रगुणीभवन्तः। एतद्वदुद्धतविरोधिधराधवानां हृल्लेखतामिव निशुम्भकृते वहन्तः॥२३॥ यस्य हमाँउनन्दननृपस्य समिति संग्रामाङ्गणे रोम्णां तनूरुहाम् । लोनामित्यर्थः । 'रोमलोमतनूरुहः' इति हैम्याम् । अङ्कुराः प्ररोहाः समुच्छवसन्ति उच्चैः संजायन्ते उल्लसन्ति । उत्प्रेक्ष्यते-एतद्वदकब्बरसाहिरिव उद्धता उत्कटा मदोन्मत्ता ये विरोधिधराधवाः प्रत्यर्थिपार्थिवास्तेषां निशुम्भकृते दक्षिणारमणमदिराङ्गणप्राणीकरणार्थ हल्लेखतामुत्कण्ठो
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy