________________
८२
हीरसौभाग्यम्
सर्ग १० श्लो० २०-२१
यस्य प्रसृत्वरयशःशरभूसवित्री
स्वःकूलिनीव करवाललता बभूव । यस्यां निमज्ज्य रिपुराजपरम्पराभि
र्येनान्वभावि दितिजद्विषतां विभूतिः॥२०॥
यस्याकब्बरसाहेः करवाललता खनयष्टिः स्वःकूलिनी मन्दाकिनीव बभूव जाता । किंभूता । प्रसृत्वरं विश्वविस्तरणशीलं यद्यशः कीर्तिः तदेव शरभूः स्वामिकार्तिकस्तस्य सवित्री जननी येन कारणेन । यस्यां करवाललतास्वःकूलिन्यां निमज्ज्य ब्रूडित्वा स्नात्वा तदभिमुखमागत्य प्रहृत्य च पञ्चत्वमासाद्य रिपवः शत्रवो जना एव राजानस्तेषां परम्पराभिः श्रेणीभिः दितिजानां दितेरसुरमातुर्जायन्ते स्मेति दितिजास्तेषां द्विषतां वैरिणां देवानां विभूतिः सुरश्रीरन्वभावि अनुभूयते स्म । गङ्गायां रणे च त्यक्तप्राणा देवभूयं भजन्तीति परमतम् । 'मृते चापि सुराङ्गनाः इत्युक्तेः ।।
કલેકાર્થ અકબર બાદશાહની તલવાર, વિશ્વવ્યાપી પ્રસારને સ્વભાવવાળી કીતિરૂપ કાર્તિકજનની આકાશગંગા જેવી બની, કે જે આકાશગંગાના પ્રવાહમાં શત્રુરાજાઓની હારમાળાઓ દેવોના વૈભવને અનુભવ કરનારી બની ! મારા
यस्मिन्रणाङ्गणगते प्रहताहिताश्वाः
शौर्योदयादिवि मुहुर्मुहुरुत्पतन्ति । भूमौ निजाभिभवतः सवितुः सगोत्रां
स्तावा॑निवाश्रयितुमुत्सुकतां वहन्तः॥२१॥ यस्मिन्नकब्बरभूपतौ रणाङ्गणं संग्राममध्यं गते प्राप्ते सति प्रहताः शस्त्रप्रहारादिना व्यापादिता ये अहितानां प्रतिपक्षिणामश्वस्तुरङ्गमास्ते शौर्योदयात् शूरतायाः प्रादुर्भावान्मुहर्मुहु. वारं वारं दिवि गगने उत्पतन्ति उच्छलन्ति उच्चैः फालां ददते । उत्प्रेक्ष्यतेभूमौ पृथ्वीपीठे निजस्यात्मनोऽभिभवतः पराभवनोदयात् सवितुः सूर्यस्य पितुर्वा सगोत्रानस्वजनाम्बन्धून ताानश्वान आश्रयितुं शरणीकर्तुमुत्सुकतामुत्कण्ठां वहन्तो धारयन्त इति । विपत्तौ स्वजनाः श्रीयन्ते इति स्थितिः श्रुतिर्वा ॥
કાર્થ અકબર સાથેના સંગ્રામમાં શસ્ત્રોના પ્રહારોથી હણાયેલા શત્રુઓના અશ્વો શૌર્યતાને