________________
सर्ग १० श्लो० १८-१९] हीरसौभाग्यम्
લોકાઈ પૃથ્વી વિજય માટેના પ્રયાણ સમયે રવૃષ્ટિ થવાથી શત્રુરાજાઓએ સમસ્ત દિશાએ મલિન-શ્યામ જોઈ, તે જાણે પોતાનાં સ્વામીના ભાવિ સંકટને જેવાથી, દુઃખવડે મૂર્શિત થઈને ભૂમિપર આળોટવાથી ધૂળવાળા શરીરવાળી બની ગઈ ન હોય ! ૧૮
यन्मेदिनीकुमुदिनीरमणप्रयाणे
छिद्रं न्यभालि परिपन्थिभिरभ्रपान्थे । मद्वंशजक्षितिरथोदयिनी हृदन्त
दुःखप्रकर्षत इति स्फुटितोरसीव ॥१९॥
कुमुदिनीनां कैरविणीनां रमणो वरयिता कुमुदिनीरमण । मेदिन्या धरण्याः कुमुदिनीरमणः स चासौ कुमुदिनीरमणश्च । 'इदं तमुर्वीतलशीतलद्युति' इति नैषधे । तस्य प्रयाणे स्वरिपरि प्रस्थाने परिपन्थिभिः प्रत्यर्थिभिरर्थात् पृथिवीनाथरभ्रपान्थे गगनपथिके भास्करे । 'हरिः शुचीनौ गगनादध्वजाध्वगौ' इति हैम्याम् । सूर्यमण्डले इत्यर्थः । छिद्रं विवरं न्यभालि ददृशे दृष्टम् । उत्प्रेक्ष्यते-अथाकब्बरसाहेरागमनानन्तरं मवंशे मदीयान्ववाये जायन्ते स्म उत्पद्यन्ते स्मेति मद्वंशजाः सूर्यवंशीयास्तेषामेतावता सूर्यवंशोत्पन्नानां भूपालानां राजन्यवीराणां च क्षितिः क्षयो विनाश उदेष्यति भविष्यतीत्येवंशीला उदयिनी भाविनी इति हेतोह दन्तश्चित्तमध्ये दुःखस्य प्रकर्षतोऽतिशयतः स्फुटितं विधाभूतं सच्छिद्रं वा जातमुरो हृदयं यस्य तादृश इव । 'पन्था भास्वति दृश्यते बिलमयः प्रत्यर्थिभिः पार्थिवैः' इति नैषधे । म्रियमाणा रणे सूर्ये छिद्रं पश्यन्तीत्यरिष्टवेदिनः । यद्वा । द्वावेतौ पुरुषौ लोके सूर्यमण्डलभेदिनः । परिव्राड्योगयुक्तश्च रणो चाभिमुखो हतः॥' इत्युक्तत्वात् । 'स सूर्य छिद्रं निरीक्षते' इति तु तवृत्तिः । ततो भानौ रन्ध्रनिभालनमिति ॥ इति प्रती. पनृपतीनामरिष्टाविर्भावना ॥
કાર્થ
પૃથ્વીરૂપી કુમુદિનીનાં પતિના (અકબર બાદશાહના) પ્રયાણ સમયે શત્રુરાજાઓએ આકાશમાં સૂર્યમંડલને સછિદ્ર જોયું, તે જાણે “આ બાદશાહના આગમનથી મારા વંશન–સૂર્યવંશને ભાવિ ઉશ્કેદ થશે ! આવા દુખનાં પ્રકર્ષથી જાણે હદય ફાટી ગયું ન હોય ! અર્થાત્ સચ્છિદ્ર બની ગયું ન હોય ! ૧લા
हि. सौ. ११