SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् सर्ग १० श्लो ० १७-१८ संप्रस्थिते वसुमतीविजयाय यस्मि-न्भूपैविरोधिभिरदृश्यत दिक्षु दाहः । जाने निजव्यसनवीक्षणभूतनूता(त्ना)-सातस्वदिग्युवतिनिःश्वसिताग्निकीलः ॥१७॥ यस्मिन्नकब्बरनृपतौ वसुमत्या वसुंधराया विजयाय स्वायत्तीकरणार्थ संप्रस्थिते सम्यग्विजयविधायिमुहूर्त दिने चतुरङ्गचमूचक्रेण सम निर्मितप्रस्थाने सति । प्रचलिते सतीत्यर्थः । विरोधो विद्यते येषां ते विरोधिनस्तैर्विप: पैः क्षोणीपालैदिक्षु सर्वाशासु दाहो ज्वलज्वालादि ज्वालामालाकुलत्वमदृश्यत दृष्टः । सर्वा अपि हरितो ज्वलन्त्यो दृष्टा इत्यर्थः । तत्राहमेव जाने विदांकरोमि उत्प्रेक्षे वा निजानामात्मीयानामर्थादकबरपरिपन्थिप,दिदिक्पतिनृपतीनां व्यसनानां भाविमरणावधिविपत्तीनां वीक्षणेन दीर्घदर्शितया अवलोकनेन मानेन कृत्वा भूतमत्पन्नं यन्नूत्नं नवीनमसातं दुःखं यासां तासां स्वेषां तत्तहिक्पतिनपाणां दिशामेव युवतीनां प्रियाणां निःश्वसिताग्नेनिःश्वासानिलस्य कीलो ज्वालेव । कीलशब्दोऽकारान्तोऽप्यस्ति । 'त्रिनेत्रनेत्रानलकीलनीलम्' इति नैषधे । तथा 'वल्लरशफरमयरकी. लहालाः' इति लिङ्गानुशासने पुंस्त्रीलिङ्गे कीलः कीला॥ બ્લેકાર્થ દિવિજયના પ્રયાણ સમયે શત્રુરાજાઓએ દિશાઓમાં જવાલાઓ જોઈ. અકબર બાદશાહના પૂર્વ આદિ દિશાઓના અધિપતિ શત્રુરાજાઓની ભાવિ વિપત્તિને જેવાથી ઉત્પન્ન થયેલા દુઃખવડે પિતાની દિગાંગનાઓનાં નિઃશ્વાસરૂપી અગ્નિની જવાલાએ જાણે ન હોય તેમ હું માનું છું ! ૧છા भूपेऽभिषेणयति यत्र रजोभिवृष्टया दृष्टा दिशः परनृपैर्मलिनाः समग्राः । स्वस्वामिसंकटसमीक्षणमूर्छनोर्वी -निष्पातधूसरितगात्रलता इवैताः ॥१८॥ यत्र यस्मिन्भूपे अकब्बरनृपे अभिषेणयति सति सेनाभिः सम प्रतिनृपतीनभिगच्छती सति परनृपः प्रतिभटभूपालकलाप रजोभिवृष्टया अतिबहुलानां धूलीनामभि समन्ताद्वर्षणेन कृत्वा मलिनाः कश्मलाः मलीमसाः समग्राः समस्ता अपि दिश आशा दृष्टा । उत्प्रेक्ष्यतेएता दिशः स्वासामात्मीयानां स्वामिनां भर्तृणां संकटानां व्यसनानां समीक्षणेन सम्यनिश्चितत्वेनावलोकनेन कृत्वा मूर्छनैदुःखोदभूतातुच्छमूर्छाभिरुया भूमौ निष्पातो निष्पतनं लुण्ठनं वा तेन धूसरिता ईषत्पाण्डुरिता धूलीलालता वा रजोमया वा जाता गात्रलताः शरीरयष्टयो यासां तादृश्य इव ॥
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy