________________
सर्ग १० श्लो० ६-७]
हीरसौभाग्यम्
७३
यदुक्त नैषधे-'बलिसदुम दिवं स तथ्यवागुपरि स्माह दिवोऽपि नारदः' इति । पश्चादद्वैतविभूतिजाताबलवत्तया क्रतुभुजां भुवनेनाभिभूत भूतले गतमित्यर्थः ।।
__kat: તેમનો પરાજય કરવા માટે ઉદ્ધત થયેલા સ્વર્ગલેકના અતિશય ભયથી નાસીને પૃથ્વીતલમાં જતા નાગલોકને જાણીને, નાગલોકને પરાભવ કરવા માટે દિલ્હીદેશનાં હાને જાણે સ્વર્ગલોક પૃથ્વી પર આવ્યું ન હોય ? ( દિલ્હીદેશ જાણે પ્રત્યક્ષ દેવલોક सभी ५२ आवेहो न डाय तेको ।). ॥६॥
यः पद्मनन्दन इवास्ति हिरण्यगभों
रम्याप्सरा हरिरिवाच्युतवत्सलक्ष्मोः । रत्नाकरोऽम्बुधिरिवारिरिवात्मयोने
र्दुर्गान्वितः पविरिवासहजैरजेयः ॥ ७॥
यो देशः पदमनन्दनो विरञ्चिरिव । ‘पदमनन्दनसुतारिरंसुता' इति नैषधे। हिरण्यं सुवर्ण गर्ने मध्ये यस्य । आकरादौ स्वर्णानां सदभावात, कनकभृत्कलशानां भूमिगर्भेषु स्थायित्वाहा, सुवर्णादीनि गर्भ मध्ये यस्य व्यवहारिणां सौधेषु परःशतपरोलक्षपरःकोटिहिरण्यदर्शनाद्वा । ब्रह्मणस्तु केवलं नामैव । 'हिरण्यगर्भो लोकेशो नाभिपदमात्मभूरपि' इति हैम्याम् । अस्ति विद्यते । पुनर्यों हरिरिव इन्द्र इव । रम्याणि कमलाकरसद्भावान्मनोज्ञानि अत एवात्प्रधानानि सरांसि तटाका यत्र । हरिस्तु रम्या रन्तुं योग्या कलाकेलिकलाभिर्विलसितुमुचिताः । रमणारे इत्यर्थः । अप्सरसो रम्भा-तिलोत्तमा-धृताचीमेनकाप्रभृतयः स्वर्वनिताः यस्य । पुनर्योऽच्युतवन्नारायण इव सह लश्म्या धनधान्यादिविभवेन शीभया या वर्तते सः । 'समासान्तविधेरनित्यत्वात्कप्रत्ययाभावः' कृष्णस्तु श्रिया पत्न्या सहितः । पुनर्योऽम्बुधिः पारावारः इव रत्नानां प्रशस्तवस्तूनां रत्नपुरुषाणां नेमिनाथकृष्णबलभद्रादीनां महापुरुषाणामाकर उत्पत्तिस्थानम् । समुद्रोऽपि रत्नाकरः । पुनर्यो देशः आत्मयोनेः स्मरस्य अरिः शंभुरिव दुर्गरद्रिकोट्टैरन्वितः । शिवस्तु दुर्गया पार्वत्या पत्त्या युक्तः । अर्धाङ्गभाजित्वात् । पुनर्यः पविरिव वज्रवदसहजैः शत्रुभिरजेयो जेतुमशक्यो वैरिभिरग्राह्यः । वनं तु दुर्भेद्यं गिरिष्वप्यकुण्ठत्वात्, सुरासुराणां दुर्जयत्वाद्वा ॥ इति दिल्लीदेशः ॥
કલેકા દિલ્હીદેશ હિરણ્યગર્ભા જેવો છે ! અર્થાત જે દેશની ભૂમિમાં સુવર્ણથી ભરેલા કલશ છે, અથવા સુવર્ણની ખાણે છે, અથવા શ્રેણીનાં ગૃહમાં લાખે-કેડે . हि. सौ. १०