SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सर्ग १० श्लो० ३-४] सौभाग्यम् उत्ताननक्र इव वक्त्रकजं कुशाद्याविभूषयति मध्यमहीममुष्य । उत्पत्तिमाकलयतो ददतोऽङ्गिकामाक्षीरार्णवे तुभुजामिव पादपस्य ॥ ३ ॥ आसेदुषीभिरवने विदुषीभिरिक्षु च्छायासु नवकुटुम्बिघनस्तनीभिः । कीर्तिर्जगज्जयिरतीशजयोर्जितेव राजीमतीशितुरगीयत गीतिरुच्चैः ॥ ४ ॥ ( युग्मम् ) ७१ यस्य दिल्ली मण्डलस्य नवाभिस्तरुणीभिः कुटुम्बिनां कर्षुकाणां धनस्तनीभिः पीनपयोधराभिः अथ वा घटस्तनीभिः जम्भवत्कुचौ यासामित्युन्नतस्तनीभिः वनिताभिर्गीतिर्गानमुच्चैः सातिशायिमधुरध्वनिनागीयत जगे गीता । किंभूताभिः । इक्षूणां रसालानां छायासु निरातपस्थानेपु आसेदुषीभिरुपविष्टाभिः । इत्थं किम् । अवने इक्षुक्षेत्ररक्षणे विदुषीभिर्निपुणाभिः । उत्प्रेक्ष्यते—जगन्ति त्रीणि भुवनानि । सुरासुरनरानित्यर्थः । जयतीत्येवंशीलस्य रतीशस्य मन्मथस्य जयेन पराभवेन क्षौदेनामूछेर्जिता स्वीकृता राजीमतीशितुः श्री नेमिनाथस्य कीर्तिरेवागीयत । राजीमतीशितुः किं कुर्वतः । कुश इति पदमाद्यं यत्र तादृशे आवर्ते । कुशावर्ते देशे इत्यर्थः । उत्पत्ति' जन्म आकलयतः दधतः प्राप्नुवतः । कस्येव । पादपस्येव । यथा ऋतुभुजां देवानां पादपः पारिजातनामा कल्पद्रुमः क्षीरार्णवे दुग्धपयेोधौ उत्पत्तिमाकलयति । पुनः किंभूतस्य । स्वर्तुमवदङ्गिनां प्राणिनां भविकानां कामानभिलाषान्ददतः यच्छतः । अथ वा । क्षीरार्णवे कल्पवृक्षस्येव कुशावर्त जनपदे जन्माकल्यतः । कुशावर्ते किं कुर्वति । वक्त्रकज वदनारविन्द उत्तानमुन्नत नक नासिका तस्मिन्निव । अमुष्य दिल्लीमण्डलस्य मध्यमहीमन्तरालभृर्मी विभूषयति शोभां लम्भयति । मेवातमण्डलमध्ये श्रीनेमिनाथजन्मस्थान कुशावर्तदेशेोऽस्तित्यर्थः ॥ युग्मम् ॥ લેાકાથ ઈશુનાં ખેતરાનું રક્ષણ કરવામાં ચતુર, વૃક્ષાની છાયામાં બેઠેલી અને ઉન્નત સ્તનવાળી ખેડૂત યૌવનાએ મધુર સ્વરે ગીતેા ગાતી હતી ક્ષીરસમુદ્રમાં ઉત્પત્તિવાળા અને પ્રાણીઓને ઇચ્છિત આપનારા કલ્પવૃક્ષાની જેમ-મુખકમલને જેમ નાસિકા શેશભાવે તેમ દિલ્હી દેશની મધ્યભૂમિ શેાભાવતા ર કૃશાવત' નામનાં દેશમાં જન્મેલા અને
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy