________________
हीरसौभाग्यम्
जीविकामिव नभोभ् पावले: प्रावृषं पुनरवेत्य पत्तने । हीरसूरिपुरुहूतशासनात्तस्थिवान्विजय सेन सूरिराट् ॥ १५३ ॥
सर्ग ९ श्लो० १५३-१५४]
विजयसेन इति नाम यस्य तादृशः स्ररीणां राट्र राजा हीरसूरिपुरुहूतस्य हीरविजसूरिशक्रस्य शासनादादेशात्पुनरपरार्थे पत्तने अणहिलवाटकनगरे तस्थिवान् स्थितः । किं कृत्वा । प्रावृषं वर्षासमयमुपेतमवेत्य ज्ञात्वा । प्रावृषं कामिव । नभोम्बुपानां चातकानामावलेः पङ्क्तेः जीविका जीवनवृत्तिमिव ।
શ્લેાકાથ
ચાતકાની આજીવિકા સમાન વર્ષાકાળને જાણીને શ્રીવિજયસેનસૂરિ, શ્રોહીરવિજયસૂરિની આજ્ઞાથી, અણુહિલ્લપુર પાટણમાં ચાતુર્માસિક સ્થિરતા કરીને રહ્યા. ૫૧૫૩ા
प्रीणन्प्राणिनभोम्बुपान्प्रविदधदर्वादिनां दुर्दिन
६७
बोधाङ्करकरम्बितां विरजसं कुर्वश्च चित्तक्षितिम् ।
आनन्दं ददते स्म विस्मयकरीं व्याहारधारां किर
न्भूमौ सूरिपुरंदरो जलधरो जम्भारिमार्गे पुनः ॥ १५४॥
भूमौ महीमण्डले सूरिपुरंदरी हीरविजयसूरीन्द्रः अथ च सूरिरेव पुरंदरो मेघः । यदुक्तम्- 'एक एव खगो मानी चिरं जीवतु चातकः । पिपासितो वा म्रियते याचते वा पुरंदरम् ॥' इति । पुनर्जम्भारिमार्गे शक्रपद्धतौ आकाशे । यथा देवमार्गस्तथा देवेन्द्रमार्गोऽपि । तथा 'येनामुना बहुविगाढसुरेश्वरा धू राज्याभिषेकविकसन्महसा बभूवे' इति नैषधेऽपि । जलधरो मेघ आनन्दं जनानां प्रमोदं ददते स्म । 'दद दाने' भ्वादिरात्मनेपदी च । किं कुर्वन् । प्राणिनो जन्तव एव नभोम्बुपा वप्पीहास्तान् प्रीणन् तर्पयन् तृप्तिमुत्पादयन् तेषाम् । पुनः किंभूतः । दुर्वादिनां परवादिनां मिथ्यादृशां दुर्दिनं दुष्टदिवसं पराजयगोचरीकृतत्वान्मेघान्धकारं च प्रविदधत् प्रकर्षेण कुर्वन् । पुनः किंभूतः । बोधस्तत्त्वज्ञानं सम्यक्त्वं वा तदेवाङ्कुरः प्ररोहः । अथ वा बहुवचनम् । बहुजनापेक्षया तत्त्वज्ञानानि सम्यक्त्वानि च त एवाङ्कुरास्तैः करम्बितां व्याप्तामत एव विरजसं विगतरजस्कां पापधूलीभ्यां रहितां चित्तक्षितिं मनोमेदिनीं कुर्वन् सृजन् । पुनः किंभूतः । विश्वेषां जगज्जनानां विस्मयकरी माश्चर्योत्पादिकाम् । व्याहारा एव वाग्विलासा एव धारा ममृतवृष्टि किरन्विस्तारयन् ॥