________________
हीरसौभाग्यम्
सर्ग ९ श्लो० १५१-१५२
गणकैरविणीरमणः श्रमणैर्बहुभिः सह तत्पुरमध्यवसत् ।
कलभप्रकरैरिव गन्धगजो जलबालकभूधरभूवलयम् ॥१५१॥ श्रमणः साधुभिः सार्ध गणे तपागच्छे आह्लादकत्वेन कैरविणीनां कुमुदिनीनां रमणः प्राणनाथश्चन्द्रो गच्छनायकः तद्गन्धाराभिधानं नगरमध्यवसत् आश्रयति स्म । गन्धारबन्दिरे तस्थिवानित्यर्थः । क इव । गन्धगज इव यथा कलभैस्त्रिंशदब्दकैः प्रौढ़ेर्गजनजैरुपलक्षणाविंशतिवर्षीयैर्वित्कैः दशवार्षिकैः पोतः पञ्चवार्षिक लैः इत्यादिभिद्विरतैः समम् । 'पञ्चवर्षों गजो बालः स्यात्योतो दशवार्षिकः । वित्को विंशतिवर्षः स्यात्कलभत्रिंशदब्दकः ॥' इति हैम्याम् । गन्धहस्ती जलबालको विन्ध्यः स एव भूधरः पर्वतस्तस्य भूवलयं वनगहनपृथिवीपीठमधिवसति विन्ध्याद्रिवनखण्डे तिष्ठति । 'विन्ध्यस्तु जलबालकः' इति हैम्याम् ॥
શ્લોકાથ
જેમ ગંધહસ્તિ, લાભ, વિનુ, પોત અને બાલહસ્તિઓના સમુહ સાથે વિધ્યાચલ પર્વતના વનખંડમાં રહે છે તેમ તપગચ્છમાં ચન્દ્રસમાન શ્રીહીરવિજયસૂરિ બાલ, યુવાન, વૃદ્ધ આદિ અનેક શ્રમણે સાથે ગંધાર બંદરમાં બિરાજમાન થયા. ૧૫૧
अमरपुरीकृतलज्जे तत्र विजेतुं बलीगृहं समे ।
प्रावृषि दुग्धपयोधौ मधुपरिपन्थीव तस्थौ सः ॥१५२॥ स प्रसिद्धः सूरिः तत्र गन्धारनगरे प्रावृषि वर्षाकाले वार्षिकचतुर्मास्यां तस्थौ तिष्ठति स्म । क इव । मधुपरिपन्थीव । यथा प्रावृद्रसमये दुग्धपयौधौ क्षीरसमुद्रे मधुनाम्नो दैत्यस्य परिपन्थी शत्रुर्नारायणः तिष्ठति । किंभूते गन्धारपुरे । अमराणां देवानां पुर्या नगर्या अमरावत्याः स्वातिशायिताभ्यधिकवैभवभरैः कृता विहिता लजा मन्दाक्षं येन । पुनः किंभूते । बलिगृहं नागलोकं विजेतुं विशेषेण स्वविभवाधिक्येन पराभवितुं सज्जे सज्जीभूते ॥ इति गन्धारनगरे हीरसूरेः स्थितिः ॥
ફ્લેકાર્થ જેને વૈભવથી સ્વર્ગપુરી પણ લજિજત બની ગઈ છે અને નાગકને પણ જીતવા માટે ઉત્સુક બનેલા ગંધાર બંદરમાં હીરવિજયસૂરિ, જેમ મધુનામના દૈત્યના શત્રુ વિષ્ણુ ક્ષીર સમુદ્રમાં રહે, તેમ વર્ષાકાળમાં ચાતુર્માસિક સ્થિરતા કરીને રહ્યા, ઇ૧૫રા