________________
सर्ग ९ श्लो ० १४५-१४७]
हीरसौभाग्यम्
લોકાર્થ અનેકાન્તવાદરૂપી કમલને વિકવર કરવા માટે સૂર્યસમાન શ્રીહીરવિજયસૂરિએ પૃથ્વી ઉપર ભવ્યજીના પાપ સંતાપને દૂરકરનારાં અનેક ધર્મતીર્થોની સ્થાપના કરી. તે તીર્થો જાણે આ પૃથ્વીમંડલમાં કીડા કરવા માટે ઉત્સુક બનેલી મુકિતરૂપી લક્ષ્મીના કુરાયમાન કીડાગૃહે ન હેય ! તેવા શોભે છે. ૧૪પા
अथो विहारप्रतिष्ठादीक्षाद्यनन्तरं कस्मिंश्चिदकब्बरसाहेराकारणसमये गन्धारनगरे चतुर्मासीः तिष्ठासोः सरेर्गन्धारवर्णनं किंचित्
अथो लाटलक्ष्मीललामायमानं पुरं वार्धितीरेऽस्ति गन्धारनाम । किमुद्वेज्यमाना जलैरम्बुराशेः प्रतीरं पुरी संश्रिता शाहू पाणेः ॥१४६॥
लाटस्य लाडनानो मण्डलस्य लक्ष्म्या ललामायमानं तिलकमिवाचस्त वाधेः समुद्रस्य तीरं तटं तत्र गन्धार इति नाम यस्य तादृश पुरं नगरमस्ति विद्यते । उत्प्रेक्ष्यतेअम्बुराशेः कल्लोलमालिनः प्रसरत्तुङ्गतरङ्गरङ्गविरलजलरुवेज्यमाना अत्युद्वेगं प्राप्यमाना शाङ्गपाणेर्नारायणस्य पुरी द्वारका नगरी विष्णोः कुत्रापि गते सति समुद्रेणाप्लाव्य स्वसलिलमध्ये गृहीता; अत एव पानीयोद्वेगात्प्रतीरं तटं संश्रिता पानीयाबहिरागत्यात्र स्थितेव ॥
લોકાર્થ સમુદ્રના જલવડે ઉદ્વેગ પામીને જાણે વિષ્ણુની નગરી દ્વારિકા, મુદ્રનાં તીરે આવીને વસી હોય તેમ લાટદેશની લમીના તિલક સમાન “ગંધાર’ નગર સમુદ્રના કિનારે વિદ્યમાન છે. ૧૪
निधानेशरम्भाकुमारीगणेशान्दधानेन गाङ्गेयराजेश्वरांश्च ।
जिता येन वस्वोकसारा स्वलक्ष्म्या ह्रियेवानिता शंभुशैलस्य मौलिम् ॥१४७॥ गन्धारनगरेण स्वलक्ष्म्या निजवैभवेन जिता परिभूता सती वस्वोकसारा धनदपुरी हियेव पातिरेकादिव शंभुशैलप्रय मौलिं मस्तकमुपरितनशिखरमाश्रिता भेजुषी । येन किं कुर्वाणेन । दधानेन । कान् । निधानानां निधीनामीशाः स्वामिनो निधिपतयः तास्तथा रम्माः कदलीः कुमारीः कन्यकाः तथा गणानां जनसमुदायानामीशा गणनायकास्तान