SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् सर्ग ९ श्लो० १४४-१४५ किंभूतः । शाखा विमलविजयसागरसुन्दरादिका प्रशाखा आनन्दहर्षसौभाग्यविशालकुशलादिकास्तासां श्रेणीभिराकीर्णः परिवृतः । पुनः किंभूतः । छायया शोभया छिन्नो निचितः सहितः । पुनः किंभूतः । राजभि विनिभूतोपचाराद्भपालैः सेव्यः उपासनीयः वटस्तु स्कन्धनिसृताः शाखास्ताभ्यः पुनर्निर्गताः प्रशाखास्तासां राजिभिर्याप्तो भरितः । तथा छायया प्रतिच्छायिकयाञ्चितः सिञ्चितः । तथा राजभिर्यक्षः । सेवनीयः । पक्षाणां वटवासित्वात् । 'यक्षः पुण्यजनो राजा गुह्यको वट वास्यपि' इति हैम्याम् ॥ કલેકાર્થ જેમ શાખા-પ્રશાખાઓથી વ્યાપ્ત અને યક્ષસેવિત વિશાળ છાયાયુક્ત વડવૃક્ષ શેલે તેમ વિમલ, વિજય, સાગર, સુંદર આદિ શાખાઓ અને આનંદ, હર્ષ, સૌભાગ્ય, વિશાલ, કુશલ આદિ પ્રશાખાઓની શ્રેણિથી વ્યાપ્ત શોભાયુકત અને અનેક રાજાએથી સેવ્ય એવા શ્રી હીરવિજયસૂરિ શોભે છે. ૧૪૪ समस्थापयत्तीर्थसार्थाननेकान्तवादाज्बुजाम्भोजबन्धुः ।। महीमण्डले रन्तुमुत्कण्ठितायाः स्फुरन्केलिगेहा इव ब्रह्मलक्ष्म्याः ॥१४५॥ एकान्तेन निश्चयेन वदनमेकान्तवादो न एकान्तवादो यत्र तदनेकान्तवादं जिनशासनम् । यतः–'स्याद्वादवाद्याहतः स्यात्' इति हेमाचार्योंक्तिः । स एव तदेव वाम्बुजं सरसीरुहं तत्र तद्विकाशने अम्भोजबन्धुः पद्मबान्धवः सहस्ररश्मिः सूरीन्द्रः अनेकान् शतशः तीर्थानां पापसंतापापनोदस्थानानां सार्थान् समूहान् । यद्यपि हैम्याम् संघसार्थों तु देहिनाम्' इत्युक्तम्, तथापि हेमचन्द्रेणैवानेकार्थे प्रोक्तम्-'सार्थो वृन्दे वगिग्गणे' इत्युत्पन्नभेदात, तथा पदार्थसार्थ-' इत्यपि दर्शनात; अनुप्रासत्वाद्वा लक्षणयापि समूहार्थ एव तस्मादानीतः । समस्थापयत्समस्थापयति स्म । उत्प्रेक्ष्यते-महीमण्डले पृथ्वीपीठे रन्तुं क्रीडितुमुत्कण्ठिताया उत्सुकिताया ब्रह्मलक्ष्म्या मुक्तिश्रियाः । शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्मनिवृतिः' इति हैम्याम् । स्फुरन्तः निखिलसुटग्दृग्गोचरीभावं भजन्तः केलिंगेहा विलाससौधानीव । सूरिस्थापितानां तीर्थानां पृथिवीपीठस्थायुकत्वात् अथ च ब्रह्मलम्यास्त्रैलोक्योपरितभूमौ स्थायित्वाच्च महीमण्डले क्रीडाकाङ्क्षति ॥ इति हीरविजयसूरिधर्मकृत्यानि महिमसंपदः ॥
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy