________________
mi
सर्ग ९ श्लो० १४२-१४४]
हीरसौभाग्यम्
प्रत्यतिष्ठत्परोलक्षा आर्हतीः प्रतिभाः प्रभुः । कल्पितानल्पसंकल्पाः कल्पसाललता इव ॥ १४२ ॥
प्रभुहीरविजयसूरिः १परोलक्षाः लक्षशः आहती नीः प्रतिमा मूर्तीबिम्बानि प्रत्यतिष्ठत् प्रतितिष्ठति स्म । उत्प्रेक्ष्यते-कल्पिताः प्रदत्ताः पूर्णीकृता अनल्पा अनेके भूयस्तराः संकल्पा मनोभिलषितानि याभिस्तादृशीः कल्पसाललताः कल्पद्रुमवल्लीरिव । 'कल्पद्रुमलताः' इति सोमसौभाव्यकाव्ये ॥
લેકાર્થ શીહીરવિજયસૂરિએ ભવ્યજીનાં અનેક સંકલ્પ પૂર્ણ કરનારી સાક્ષાત્ કવેલી સમાન લાખે જિનપ્રતિમાઓની પ્રતિષ્ઠા કરી. ૧૪રા
पान्थानिव महानन्दपटभेदनपद्धतौ ।
दीक्षायामास सूरीन्द्रोऽनेकानिभ्यतनूभवान् ॥ १४३ ॥ सूरीन्द्रोऽनेकान्परःशतानिभ्यतनूभवान्व्यवहारिपुत्रादीन्दीक्षयामास प्रव्राजयति स्म । उत्प्रेक्ष्यते-महानन्दो मोक्षः स एव पुटभेदनं रत्नयोनिपत्तनम् । रत्नयोनिरिति लोकरूढिः । तथा च रत्नसदृशानां पुरुषाणामुपत्तिस्थानम् । महानन्दे तीर्थकरचक्रवर्तिबलदेवमहामण्डलीकमहीपतिसरिबाचकमहामुनिप्रमुखा रत्नेभ्योऽभ्यधिकानां महापुरुषाणामुत्पत्तिस्थानकं ततः पत्तनोपमानम् । तस्य पद्धतौ मार्गे पान्थान् पाथिकानिव ॥
કલેકાથ આચાર્ય, ઉપાધ્યાય, પ્રવર્તક આદિ મહાપુરૂષોની ઉત્પત્તિ સ્થાનરૂપ (રત્નાનિ સમાન) શ્રી હીરવિજયસૂરિએ સેંકડે શ્રેણીપુત્રોને પ્રજિત કર્યા. તે પ્રમાણે જાણે મેક્ષરૂપી નગરમાર્ગના પથિકે ન હોય ! ૧૪૩
शाखाप्रशाखाश्रेणीभिराकीर्णः श्रमणाग्रणीः । व्यभावट इव च्छायाच्छन्नः सेव्यश्च राजभिः ॥१४४॥
श्रमणानां साधूनामग्रणीः पुरोगो हीरविजयसूरिः वट इव न्यग्रोधपादप इब व्यभात् ।
१. अत्र च १२३ संख्याक श्लोंकटिप्पणिवत् 'परस्लक्षा' इति भवेत ।