________________
६४
हीरसौभाग्यम्
सर्ग ९ श्लो ० १४७-१४८
तथा गाङ्गेयं स्वर्ण तथा राजेश्वरं देशाधिपतिं राज्यलक्ष्मीवन्तमीश्वरा गजप्रमाणद्रविणधारिणः तान् बिभ्राणेन । अलकापक्षे तु सर्वेऽप्येकैकाः । निधानेशो धनदः, तथा रम्भानाम्नी धनदाङ्गजनलकूबरपत्नी । 'अस्मान्किमश्रोत्रसुधां विधाय रम्भा चिरं भामतुला नलस्य । तत्रानुरक्ता तमनाप्य भेजे तन्नामगन्धान्नलकूबरं सा ।।' इति नैषधे । कुमारी पार्वती गणेशो विघ्ननायकः गङ्गाया अपत्यं गाङ्गेयः स्वामिकार्तिकः । गङ्गोमाः कृत्तिकासुतः' इति हैम्याम् । तथा गाङ्गेयो गुहभीष्मयोः' इत्यनेकार्थः । राजानो यक्षाईश्वरः शंभुस्तान्बिभ्रती ॥
કલેકાર્થ
લક્ષમીપતિઓ, કદલી, કુમારિકાઓ, ગણનાયકે, સુવણે, અને રાજેશ્વર આદિથી શેભતી ગાંધારનગરીની લક્ષ્મીથી પરાભવ પામેલી ધનદપુરી (ધનદ, કુબેર, ધનદપુત્ર, નલકુબરની પત્ની રંભા, પાર્વતી, ગણપતિ, કાર્તિકસ્વામિ, અને ઈશ્વર આદિને ધારણ કરતી ધનદપુરી) કુબેરનગરી અલકાપુરી અતિશય લજજાથી જ જાણે કૈલાસ પર્વતના શિખર ઉપર રહી ન હોય ! ૧૪૭
स्फूर्त्या मणीकम्बुवराटमुक्तिका प्रवालमातङ्गतुरङ्गमश्रियाम् । विहेलितेना म्बुधिना द्विवेलं वेलाच्छलायनगरं न्यषेवि ॥ १४८ ॥
मणयः चन्द्रकान्ताद्याः सामान्येन सर्वजातिजानि रत्नानि कम्बवः शङ्खाः वराटा . रत्नमुख्यानि हीरका कपदां वा मुक्तिका मुक्ताफलानि । 'बहुकम्बुमणीवराटकागणनाटत्करकर्कटोत्करः' इति नैषधे । हट्टेषु कम्बवोऽपि दृश्यन्ते । प्रवाला विद्रुमा मातङ्गा हस्तिनः तुरङ्गमा अश्वाः श्रीर्धनधान्यादिविविधलक्ष्मीस्तासां स्फूर्त्या अत्युद्धरवैभवभरेण कृत्वा विहे. लितेनावगणितेनाभिभूतेनाम्बुधिना समुद्रेण द्वे वेले वाराववसरौ यत्र । 'वेला वारा ववसरः प्रस्तावः' इति हैम्याम् । तथा वेला स्यादवृद्धिरम्भसः' । द्विवेलमिति क्रियाविशेषणम् । वेलाच्छलाजलवृद्धिकपटात् । वेलागणमिषेणेत्यर्थः । यनगरं गन्धारपुरं न्यषेवि उपास्यते स्म । अम्बुधावपि मण्यादयः सर्वेऽपि पदार्थाः सन्ति । ऐरावणोच्चःश्रवसो. स्तत्रोत्पन्नत्वात् जले गजाश्वानों संभवाद्वा ॥
શ્લેકાર્થ ચંદ્રકાન્ત આદિ સર્વ જાતિનાં રત્ન: હીરા, મોતી, પ્રવાલ, હાથી અને અન્ય આદિના વૈભવથી તિરસ્કૃત બનેલે સમુદ્ર વેલા (ભરતી)નાં બહાનાથી બે વખત ગંધાર નગરીની સેવા કરતે હતે. ll૧૪૮