________________
सर्ग ९ श्लो ० १३७-१३९]
हीरसौभाग्यम्
सूरीन्द्रो हीरविजयगुरुः नृणां भव्यप्राणिनां बोधिं सम्यक्त्वं व्यश्राणयद्ददाति स्म । कामिव । मुक्तापदिक्तमिव । क इव । पारीन्द्र इव । यथा केसरी अर्थिनां याचकानां मुक्तानां स्वदारितकुम्भिकुम्भमध्यनिष्पतन्मौक्तिकानां श्रेणी विश्राणयति प्रयच्छति । किं कृत्वा । प्रणिहत्य व्यापाद्य । किम् । तमः अज्ञानं पापं वा तद्रूपं श्यामत्वात्तत्साशं द्विपं हस्तिनम् ॥
કલેકાર્થ
જેમ સિંહ હાથીઓના ગંડસ્થલને ચીરીને યાચકોને મોતીઓનું દાન કરે તેમ સૂરીન્દ્ર અજ્ઞાનરૂપી હાથીનું વિદ્યારણ કરી ભવ્યજીને ધિબીજરૂપી મોતીઓનું દાન આપતા હતા. ૧૩છા
मयां विहरति स्वैरं श्रीमत्सुरिपुरंदरे ।
दानवर्षितया भव्यव्रजेनानेकपायितम् ॥ १३८॥ श्रीमति अद्वैतवैभभासिनि हीरविजयनाम्नि सूरिषु पुरंदरे वासवे मह्यां महीमण्डले स्वैरं स्वैच्छया न पारतन्त्र्याद्विहरति विहारं विदधति सति दानं द्रविणादिविश्राणनं मदाम्भश्च वर्षतीत्येवंशीलस्तत्तथा । 'दानं विश्राणनमदाम्भसोः' इत्यनेकार्थे । दानवर्षणस्वमावेन भव्यव्रजेन भविकजन्तुजातेन अनेकान्बहून्दुःस्थानर्थिनो वा पान्ति दारिद्र्यादुद्धरन्ति सुखीकुर्वन्ति च तेऽनेकपाः मतङ्गजाश्च तद्वदाचरितं सामयोगिसदृशीभूतं च ॥
શ્લોકાથ અદ્વિતીયભાવાળા સૂરિપુરન્દર પૃથ્વી પર વેચ્છાપૂર્વક વિહાર કરતા હતા, તેમના વડે ભવ્ય પ્રત્યે બેધિબીજરૂપી દાનની વર્ષા દ્વારા હસ્તિની જેમ આચરણ કરાયું ૧૩૮
पितेव सूनुना साकं कम्माङ्गजयतीन्दुना ।
पत्तनं पावनीचक्रे हीरसूरीश्वरः क्रमात् ॥ १३९ ॥ हीरसूरीश्वरः क्रमादनुक्रमाद्विहारपरिपाट्या स्वतन्त्रससुखविचरणात् पत्तनमणहिल्लवाटकाभिधानपत्तनं पवित्रीकरोति स्म । कथम् । साकं सह । केन कस्मात् । कम्मासाधोरङ्गजो नन्दनः स एय यतिषु यतीनां मध्ये आह्वादकत्वाद्वागमृतवर्षित्वादिन्दुरिव । इन्दुराचायेणेत्यर्थः । क इव । पितेव । यथा जनकः सूनुना सार्धं पत्तनादिपुरं समेति ॥