________________
५८
हीरसौभाग्यम्
[सर्ग ९ श्लो० १३५-१३७
सूरिहीरविजयप्रभुः । उत्प्रेक्ष्यते इति हेतोरस्य मेघजीऋषेः उद्दयोतविजय इत्यभिधां नाम व्यधाञ्चकार । इति किम् । यत्कारणादसौ त्यक्तलुम्पाकमताधिपत्यः- शासने उहयोतं प्रकाशं तेने विस्तारयामास । च पुनर्दुईशां कुपक्षाणां कुमतानां विजयमवगणनारूपं विदधे निर्मितवान् । पराभवं विहितवानित्यर्थः ।।
કલેકાર્થ સુરિજીએ મેઘજીઋષિનું ઉદ્યોત વિજય એવું નામ રાખ્યું “હુંપાકમતના અધિપતિ આ મેઘજીષિ જિનેન્દ્રશાસનને ઉઘાત કરનાર થશે ! અથવા કુપાક્ષિકેનાં વિજ્યને પરાભવ કરશે ! જાણે આ હેતુથી જ ઉદ્યોતવિજય નામ રાખવામાં આવ્યું ન હોય ! ૧૩૫
पादपीठलुठन्मूर्धा बद्धाञ्जलिरसौ विभुम् । श्रीनाम इव नाभेय स्वयंभुवमबीभजत् ॥ १३६ ॥
असौ उद्दयोतविजयमुनिः विभुं हीरविजयसूरीन्द्रमबीभजत्सिद्धान्तोक्तविधिवद्विनयविधानादिप्रकारेणातिशयेन भजते स्म निषेवते स्म । तदेव दर्श्यते-किंभूतः । पादपीठे पदासने लुठम्मिलन्मूर्धा मौलिय॑स्य । पुनः किंभूतः । बद्धाञ्जलिः ललाटपट्टघटितकरकमटकुकालः । क इव । श्रीनाभ इव । यथा श्रीनाभनामा गणधर नाभेर्नाभिनामनृपस्यापत्य संतानम् । नन्दन इति यावत् । नाभेयः श्रीऋषभदेवस्तं वृषभं स्वयंभुवं तीर्थकरं भजते स्म । विशेषणे पूर्ववद् पादपीठे लुठन् संघटुं प्राप्नुवन मूर्धा मस्तकं यस्य । तथा बद्धो रचितोऽञ्जलिः पाणिद्वययोजनं येन ॥ ईति मेघजीऋषिमहः ॥
કલેકાર્થ
જેમ “શ્રીનાભ' નામના ગણધર ભગવાન ઋષભદેવની ઉપાસના કરતા હતા તેમ જતવિજયજી બે હાથ જોડી શ્રીહીરવિજ્યસૂરિના પાદપીઠને મસ્તકવડે સ્પર્શ કરી ગુરુસેવામાં તત્પર બન્યા. ૧૩૬ાા
पारीन्द्र इव सूरीन्द्रः प्रणिहत्य तमोद्विषम् । नृणां व्य श्राणयद्बोधि मुक्तापङ्क्तिमिवार्थिनाम् ॥ १३७ ॥