SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सर्ग ९ श्लो ० १२७-१२९] हीरसौभाग्यम् अरंतुदं कुपक्षाणामिवासेचनकं सताए । परिव्रज्योत्सवं कर्तुं कान्तो मेघजीमुनेः ॥ १२७ ॥ निशितायसशल्यानि हृदि मिथ्यादृशामिव । आनयन्ति स्म ते तुर्याण्यकम्बरमहीहरेः ॥ १२८ ॥ (युग्मम्) ते प्राचीनाः श्राद्धा अकब्बरनाम्नो महीहरेः पृथ्वीपुरंदरस्य तुर्याणि वादित्राण्यानयन्ति स्म । उत्प्रेक्ष्यते-मिथ्यादृशां कुवादिनां हृदि हृदये वक्षसि निशितानि तीक्ष्णानि आयसानि लोहमयानि शल्यानि त्रिशूलानीव । 'हृदि शल्यमिवार्पितम्' इति रघौ । 'अतिपीडाकारित्वात्त्रिशूलम् । इति तवृत्तिः । तथा 'परस्परोल्लासितशल्यपल्लवे' इति नैषधे । 'मिथ उल्लालितकुन्ता येऽग्रे' इति तवृत्तिः । ततः शल्यानि कुन्ता इव । तथा 'शल्यं शस्त्रशलाकयोः' इत्यनेकार्थे । शस्त्राणीव वा । प्राच्याः किं कुर्वन्तः । मेघजीमुनेः प्रव्रज्याया दीक्षाया उत्सवं कर्तु निर्मातुं काङ्क्षन्तः ईहमाना । किंभूतं परिव्रज्योत्सवम् । उत्प्रेक्ष्यतेकुपक्षाणां लुम्पाकादीनां कुमतभाजामरंतुदं मर्मव्यथकमिव । पुनरुत्प्रेक्ष्यते सतां साधूनां जैनानां सुदृशामासेचनकमाप्यायकमिव । 'तदासेचनक यस्य दर्शनाङ् न तृप्यति' इति हैम्याम् । अत्र लालाघण्टान्यायेनोभयत्रापि इव संबध्यते ॥ युग्मम् ॥ इति वाद्यानयनम् ॥ કર્થ કુમતવાળાઓના મર્મસ્થાનને વિંધનારા અને સંપુરૂષ માટે અમૃતપાન તુલ્ય મેઘજીઋષિના દીક્ષા મહોત્સવ પ્રસંગે, થાનસિંહ આદિ શ્રાવકે મિથ્યાદ્રષ્ટિના હૃદય માટે તીક્ષણ લેહમય ભાલાસમાન અકબર બાદશાહના શાહી વાજિંત્રો લાવ્યા. ૧૨૭૧૨૮ स्पृहयद्भिरिवोद्वोढुं सिद्धिमुग्धमृगीदृशम् ।। श्राद्धैरस्य तपस्यायाः प्रारभ्यत महामहः ॥ १२९ ॥ प्राच्यैौर्जरैश्च श्राद्धैः श्रावकैरस्य मेघजीमुनेस्तपस्याया दीक्षाया महामहः महोत्सवः प्रारभ्यत प्रारब्धः । उत्प्रेक्ष्यते-सिद्धिर्मुक्तिरेव मुग्धमृगीदृक् कमनीयकामिनी ताम् । 'मुग्धो मूढे च रम्ये च' इत्यनेकार्थः । उद्वोढुं स्पृहयद्भिः कामयमानैरिव ॥ લોકાર્થ જાણે મુક્તિરૂપી રમણીય કન્યાને પરણવાની અભિલાષાવાળા હોય તેમ ગુર્જરદેશના
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy