________________
सर्ग ९ श्लो ० १२२-१२४]
हीरसौभाग्यम्
५३
શ્લેકાર્થ જેમ આમ્રવૃક્ષ પાસે પિપટ આવે તેમ મેઘજીઋષિના આશયને જાણુને શ્રીહીરવિજ્યસૂરિ સ્વયં અહમદાવાદ–રાજનગર પધાર્યા. ૧૨ા
प्राच्यामिव प्रतीच्यां च महोऽभ्यधिकमावहन् । * परोलक्षान्दधत्ताान्गृहराज्ञां श्रियं पुनः ॥ १२३ ॥ सैंहिकेयाञ्जय शौर्यायोऽजैषीत्पूषणं श्रिया । स गुर्जरेष्वथागच्छत्साहिः श्रीमदकब्बरः ॥ १२४ ॥ (युग्मम्)
अथास्मिन्व्यतिकरे सकलवसुधावलथप्रसिद्धः श्रीमाननेकजनपदनायकाधिपत्याद्वैतलक्ष्म्या लक्षितः साहिः पातिसाहिः गुर्ज रेषु आगच्छत्समागतः । स कः । योऽकब्बरसाहिः श्रिया वैभवेन कृत्वा पूषणं सहस्रकिरणमजेषोज्जयति स्म पराबभूव । 'नमसितुमना यन्नाम स्यान्न संप्रति पूषणम्' इति नैषधे । किं कुर्वन् । प्राच्यां पूर्वस्यां दिशि इव प्रतीच्यां पश्चिमायामप्याशायामभ्यधिकमतिशायितम प्रतिपक्षपक्षलक्षदुःसहं स्वमहो निजप्रतापमावहन् आकलयन् । पुनः किंभूतः । लक्षात्परे *परोलक्षा लक्षशस्तानि जात्यतुरङ्गमान् अर्थादश्ववरान् दधद्धारयन् । कटके कति वाजिनः सन्ति लक्ष द्विलक्षी विलक्षी वा इति लोकभाषैव वर्तते । पर तावन्तोऽश्ववारा एव ज्ञेया इत्युक्तेः । पुनः किं कुर्वन् । राज्ञामपरापरपृथ्वीपालानां श्रियं संपदं देशनगरपामादिविभूति गृहणन्नाददानः । पुनः किं कुर्वन् । शौर्यात् शूरत्वात्सिहिकाया अपत्यानि सैहिकेयाः केसरिण: जयन्पराभवन् पराक्रमन सिंहव्याघ्रादिश्वापदान्निघ्नन् । सूर्यस्तु प्रतीच्यां मन्दायमानमहाः सप्ताश्व एव राज्ञः श्रिय दिशन् । 'पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः' इति रघौ । तथा सैहिकेयात्स्वर्भानोः सकाशादभिभवं लभमानः । अत एवाकब्चरसाहेः सूर्यजयो युक्त एव ।। युग्मम् ॥ इत्यकब्बरः ॥
લોકાથ [તે સમયે ગુર્જરદેશમાં સૂર્યને પણ પરાભવ કરે તે “અકબર બાદશાહ આ .] સૂર્ય તે પૂર્વ દિશામાં જ પોતાના પ્રતાપને વિસ્તારે છે જ્યારે બાદશાહ તે પૂર્વની જેમ પશ્ચિમ દિશામાં પણ રહેલા રાજાઓ ઉપર પિતાને અધિકાધિક પ્રતાપ વિસ્તાર, સૂર્ય
* पाणिनीयमते तु 'नाज्झलौ' इति. सूत्रस्थ 'पारस्करादित्वात्सुट्' इते, कैयटानुसारेण सुट एव संभवे तस्य परादित्वेन पदान्तत्वाभावाद्रुत्वोत्वयोरप्राप्तौ 'परस्लक्षान्' इति भवेत्.