________________
-
सर्ग ९ श्लो० ११८-१२०]
हीरसौभाग्यम्
५१
स्वोदयाय कलिं लुप्त्वा किमु कर्तुं कृतं युगम् । नक्तंदिनमिवादित्यं धर्म मूर्तमिवोद्गतम् ॥ ११८ ॥ चतुर्थारकवल्लोकान्पश्चमेऽप्यरकेऽथ वा । अवतीर्णमिवोद्धर्तु कृपया गौतम पुनः ॥ ११९ ॥ तपागच्छश्रिया लीलाललाममिव जङ्गमम् ।
श्रीहीरविजयं प्रीतेरै पीदेष निषेवितुम् ॥ १२० ॥ (कलापकम्) एष मेघजीऋषिः श्रिया सरलक्ष्म्या कलितं हीरविजयम् । श्रीहीरविजयसूरिमित्यर्थः । प्रीतेरानन्दात् । विशद्धधर्मप्ररूपकत्वेन गुरुस्नेहाद्वा निषेवितुमुपासितुमैषीद्वाञ्छति स्म । उत्प्रेक्ष्यते-तपागच्छश्रिया तपोगणलक्ष्म्या जङ्गमं संचरणशीलं लीलाललामं श्रृङ्गारकृते विधृतं कनकतिलकमिव । ललामशब्दो नकारान्तोऽकारान्तोऽप्यस्ति । 'ललामवल्ललामश्चादन्तः पुंक्लीबलिङ्गे नकारान्तः क्लीब एव' इत्यनेकार्थः । अथ हीरविजयसूरि बिशिनष्टि । उत्प्रेक्ष्यते -स्वः स्वर्गलोकादागतं भूमिमण्डलेऽवतीर्ण सुर→ कल्पवृक्षमिव । किं कर्तुमिच्छुम् । तान लोकान पूर्णकामान् इच्छापूरणपर्यन्ताधिगमसमस्तस्वमनोभिलाषांश्चिकीर्षु कर्तुमिच्छम् । किं कृत्वा । कलौ कलिनाम्नि युगे पञ्चमारके स्वेषामात्मनां काभितानामभीष्टानामप्राप्तेरनासादनात्सीदतः दुःखीभवतः सकलान् यावद्वसुघावलयबर्तिनो लोकानालोक्य विज्ञायेत्यर्थः । पुनरुत्प्रेश्पते-मृत शरीरवन्तमङ्गीकृतकार्य वा उद्गत प्रकटीभूतं धर्म जैनधर्ममिव । किं कर्तुम् । नक्तं दिनमहोरात्रम् । निरन्तरमित्यर्थः । स्वस्यात्मन उदयाय चतुर्मिरंशस्तिरोभवनाय चतुरङ्गतया प्रादुर्भवाय वा कलिं प्रबलतापसंतापास्पदं कलियुगं लुप्त्वा विलुप्य निखिलावनीमण्डलान्निकास्य कृतं युगं प्रथमसमय कर्तु विधातुम् । कृतयुगे हि धर्मश्चतुरङ्गः स्यात् । यदुक्तम् नैषधे-'पदैश्चतुर्भिः सुकृते स्थिरीकृते कृतेऽमुना के न तपः प्रपेदिरे' इति । कमिव । आदित्य मिव । यथा भास्करः नक्त निशां विलुप्य दिनं वासरं कर्तु मुद्गच्छति । पुनरुत्प्रेक्ष्यते-पच्चमे दुःसमानामन्यप्यरके कृपया कारुण्यरससमुद्रतया लोकञ्जगज्जन्तून भविकजनान्वा उद्धतु भवविकटवटादुद्धृत्य मोक्षे महान्दपदे नेतु प्रापयितु पुनद्वितीयवारमवतीर्ण गृहीतावतारं गौतममिव श्रीमन्महावीरप्रथमशिष्य गणधराग्रगण्यमिव ॥ चतुर्भिः कलापकम् ॥
કલેકાર્થ કલિયુગમાં સ્વાભિષ્ટ વસ્તુ ન મળવાથી દુઃખી બનેલા લેકેને જોઈને તેઓની અભિલાષા પૂર્ણ કરવાની ઈચ્છાથી સ્વર્ગમાંથી આવેલા કલ્પવૃક્ષની જેમ, વલી જેમ