________________
हीरसौभाग्यम्
[ सर्ग ९ श्लो० ११० - ११२
अमी लुम्पाकवेषधारका बका बकोटा इव शनैः शनैर्मन्दं मन्दमालोक्यालोक्य मुग्धविप्रतारणबुद्ध्या वीङ्खां गमनं प्रकुर्वन्ति पादौ विमुञ्चन्ति । उत्प्रेक्ष्यते - सताम् अस्मासु श्रावकत्वं नाम्ना विद्यते परं तत्त्वं सम्यक्तया न विद्मः तेषां श्राद्धानां सतां पर मुग्धानां सम्यग्दृशः सत्यज्ञानदृष्टी । सम्यक्तानीत्यर्थः । हन्तुं व्यापादयितुं भ्रंशयितुमिव काङ्क्षन्तः इच्छन्तः । का इव । शकरीरिव । यथा बकाः शफरीमत्स्यीर्हन्तु स्पृहयन्तः शनैर्हिण्डन्ते ॥
લેાકા
४८
જેમ બગલાએ માછલીએ મારવાની ઈચ્છાથી મં મદ્ય પગલાં ભરે તેમ લુ‘પાકમતનાં વેશધારીએ, સજ્જનપુરૂષોની જ્ઞાનદષ્ટિ ભ્રષ્ટ કરવા માટે મંદમંદપણે
यासता हता. ॥११०॥
विगोपनमिवैतेषां वेष वेषभृतामवैत् ।
तन्मतस्थं पुन ने सौंधं कूपगतं निजम् ॥ १११ ॥
स मेघजीऋषिरेतेषाममीषां कलिकालविलसितेन महावीरदेवशासनेऽपि कण्टकप्राचुर्याद्वहुभूतानां लुम्पाकानां वेषभृतां जैनाभासलिङ्गवारिणां वेष' लिङ्ग विगोपनमिव विडम्बनाप्रायमवैत् मनसि बुबुधे । पुनः स मेघजीमुनिः तेषां लुम्पाकानां मते पक्षे तिष्ठतीति तन्मतस्थं निजमात्मानं सौंधं कूपगतमिवेत्यध्याहारः । बह्वन्धकारकलितपातालावटमध्यनिष्पतितमिव मेनेज्ञासीत् । इति गर्भितोपमा ॥
લેાકાથ
તે લુ પામતના વેષધારીઓના વેષને મેઘજી ઋષિએ ખરેખર વિડંબનામાત્ર માન્યેા, તેમણે લુંપાકમતમાં રહેલી પેાતાની જાતને કુવામાં પડેલી જેવી માની. ૫૧૧૧ા
आप्तोक्तिरत्नगर्भायाममीषां प्रतिमाहताम् ।
निधिकुम्भीव दुःस्थानां पथिकी नाभवदृशोः ॥ ११२ ॥
आप्तोक्तिरागमः सैव रत्नगर्भा वसुंधरा तस्यां दुस्थानां हरिद्राणां निधिकुम्भीव रत्ननिधानकलशीव । अमीषां लुम्पाकमतपक्षीभूतभूयो वेषधारिणामर्हतां तीर्थकृतां प्रतिमा बिम्बमच दृशो चनयोः पथिकी विद्यमानापि पान्थी गोवरा नाभवत् । तत्र निमित्त महांह एव ॥