________________
सर्ग ९ श्लो ० १०३-१०५]
हीरसौभाग्यम्
४५
લેકાર્થ અજ્ઞાનરૂપી અંધકારના સમુહનો નાશ કરનારા સૂર્ય, ચંદ્રની જેમ ગણ નાયકત્વના ઐશ્વર્યથી શોભતા હીરવિજયસૂરિ અને વિજ્યસેનસૂરિ આ બે સૂરિન્દ્રોએ કીતિ શોભા પ્રાપ્ત કરી. ૧૦૩
वनीमिवावनी सरिशकौ चङ्क्रमणैः क्रमात् ।
मधुराधाविव मासौ शोभा लम्भयतः स्म तौ ॥१०४॥ तौ हीरविजयविजयसेननामानौ सूरिशक्रौ आचार्यपर्जन्यौ क्रमादनुक्रमेण चक्रमणैविहरणैः विहारक्रमेण अवनीं मेदिनीमण्डल शोभां श्रिय लम्भयतः स्म प्रापयामासतुः । काविव । मधुराधाविव । यथा मधुश्चैत्रः, तथा राधो वैशाखः । 'चैत्रे मधुश्चैत्रकश्च वैशाखे राधामाधवौ' इति हैम्याम् । एतावता वसन्ततुसंबन्धिनौ चैत्रवैशाखमासौ क्रमादनुक्रमतः प्रथमं चैत्रः पत्रपुष्पमञ्जरीकलिकाफलोदयोन्मुखान्कुरुते । ततो वैशाखमासः परिणतफलमण्डलकलितान् सालमण्डलान् विदधाति इत्यनुक्रमः । चङ्कमणैनिंजागमनैः कृत्वा वनीमुद्यानवीथीं वनमालां लम्भयतः । 'स्ववनीसंप्रवदत्पिकापिका ॥ इति ध्यानोत्थानाकमिपुरागमनाचार्यपदस्थापनम् ॥
શ્લેકાર્થ જેવી રીતે ચૈત્ર અને વૈશાખ (વસંતઋતુ) પૃપીને શોભાવે છે તેવી રીતે બે સૂરીન્દ્રોએ ક્રમશ: વિહાર કરીને અવનીને શોભાયમાન કરી. (ચૈત્રમાસ પ્રથમ પુષ્પ, પત્ર, મંજરી આદિ વડે વનને નવપલ્લવિત કરે છે. ત્યારબાદ વૈશાખમાસ પાકેલા ફલેની પંકિત વડે વૃક્ષને શોભાવે છે.) ૧૦૪
कोऽपि मेधाविमूर्धन्यो लुम्पाकानां मते तदा । मेघजी ऋषिरित्यास्ते नाम्नामेध्ये मणिर्यथा ॥१०५॥
तदा तस्मिन्नवसरे लुम्पाकानां 'लउका' इति नाम्ना प्रसिद्धानां मते पक्षे मेघजी इति नाम्ना कोऽपि कश्चिदृषिः तन्मतवेषधारकः आस्ते विद्यते । किंभूतः । मेघाविनां बुद्धिमतां पण्डितानां वा मध्ये मूर्धन्यो मुकुटायमानः प्रज्ञालचूडामणिः। क इव । मणिरिव । यथा इवार्थे । यथा अमेध्ये अशुचिस्थाने रत्न मणिर्भवति ॥
Rat: જેમ અશુચિ સ્થાનમાં રત્ન હેય તેમ તે અવસરે હું પાક (લંકા) મતમાં પંડિત માં