SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सौभाग्यम् [ सर्ग ९ श्लो० १०१ - १०३ सुवर्णरूप्यकमहमुन्दिनाणकैः प्रभावनां कृतवानित्यर्थः । किंवत् । जृम्भकव्रजवत् । यथा शंभोस्तीर्थंकरस्य जिनेन्द्रस्य जन्मोत्सवे जननमहामहे सौधर्मेन्द्रादिष्टधनदलोकपालानुज्ञया वैश्रवणसेवकस्तिर्यग जृम्भवकगीर्वाणगणो हिरण्यस्वर्णरजतरत्नवस्त्र बास चूर्णपुष्पकलादिवृष्टिं कुर्वन्ति ॥ ४४ લેાકા શંભુના જિનેશ્વર ભગવંતના) જન્મમહાત્સવમાં જેમ તિગૂજા ભકદેવા (सौधर्भेन्द्रना आद्देशथी धनह— डुमेर भंडारीना सेवी) सोनु, ३५, रत्न, वस्त्र, पुण्यो અને ફળા વગેરેની વૃષ્ટિ કરે છે તેમ સૂરિપદના મહે।ત્સવ પ્રસંગે મૂલચંદ શ્રેષ્ઠીએ ` સેાના રૂપા ને માણેકની વૃષ્ટિ કરી અર્થાત્ પ્રભાવના કરી. ૫૧૦૧૫ तस्मिन्विनिहितं सूरिपदं सूरिसितांशुना । दिदीपे भास्वता ज्योतिरिव सायं धनंजये || १०२ ॥ तस्मिन्विजयसेनाभिधाने व्रतीन्द्रे सूरिसितांशुना हीरविजयसूरि सुधामरीचिना सूरेराचार्यस्य पद विनिहित स्थापित सद्दिदीपे दीप्यते स्म । किमिव । ज्योतिरिव । यथा भास्वता दिवाकरेण सायं संध्यासमये धनंजये वैश्वानरे विनिहितं ज्योतिर्नक्तमतीव दीप्यते । वासरे तादृशी दीप्तिर्न भवति यादृशी निशायां दीप्रा दीप्तिर्भवति । प्रसिद्ध चैतत् । किं चास्तं व्रजन्नम्भोजिनीवल्लभो धूमध्वजे स्वतेजोऽवस्थाप्य गच्छति प्रातरागतश्च गृहूणातीति कविसमयः । तथा रघुवंशे - 'दिनान्ते निहितं तेजः सवित्रेव हुताशनेः' इति ॥ શ્લાકા જેમ સધ્યા સમયે સૂર્ય અગ્નિમાં મૂકેલી જાતિ દીપે છે તેમ હીરવિજયસૂરિરૂપી ચન્દ્ર વડે શ્રી વિજયસેનસૂરિમાં સ્થાપના કરાયેલી આચાય પદવી શૈાભવા લાગી. ૧૦૨ા शोभाभौ लमेते स्म श्रीमत्सूरिपुरंदरौ । प्रणिनन्तौ तमःस्तोमं सूर्याचन्द्रमसाविव ॥ १०३ ॥ श्रीमन्तौ गणनायकैश्वर्य लक्ष्मीकलितौ यशः शोभाभास्वरौ सूरिपुरंदरौ हीरविजयसेनाभिधाचार्य बिडौ सौ उभौ द्वावपि शोभां कीर्ति ख्यातिं लभेते स्म आसादयामासतुः । किंभूतौ । तमसामज्ञानानां दुरितानां वा स्तोमं समूह प्रणिनन्तौ व्यापादयन्तौ । काविव । सूर्याचन्द्रमसाविव । यथा दिवाकरनिशाकरौ तमःस्तोममन्धकारनिकर मूलादुच्छिन्दतौ शोभां भुवने प्रसिद्धिं लभेते ॥
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy