________________
सर्ग ९ श्लों ० ९९-१०१]
सौभाग्यम्
त्रिलोकीमपि कुर्वाणं तत्र चित्रीकृतामिव । नेत्रसुधास्पन्दि तौर्यत्रिकमजायत ||१९||
तत्र व्यतिकरे नेत्राणां लोचनानां श्रोत्राणां श्रवणानां च मध्ये सुधाममृतरसं स्पन्दते क्षरति सिञ्चतीत्येवंशीलं तादृशं तौर्यत्रिक गीतनृत्यवाद्यत्रयमजायत जातम् । किं कुर्वाणम् । त्रिलोकीं विश्वत्रयीमपि चित्रीकृतामा लेख्यलिखितामिव कुर्वाणं विदधानम् ॥
લેાકા
४३
ત્યાં ત્રણે લેાકને ચિત્રવત્ સ્તબ્ધ કરતું અને નેત્ર તથા શ્રોત્રમાં અમૃતનું સિંચન કરનારૂં ગીત, નૃત્ય અને વાજિંત્રનુ ત્રિક થયું. રાલ્ફા
तत्रास्ति श्राद्धमूर्धन्यः श्राद्धो मूलाभिधः सुधीः । सौन्दर्य धर्मदाभ्यां कामदेव इवापरः ॥ १०० ॥
तत्राहम्मदाबादनाम्नि राजनगरे श्राद्धेषु श्रीमत्तया पक्षश्रावकवर्गेषु मूर्धन्यः शेखरः श्राद्ध आस्तिकः मूल इत्यभिधा नाम यस्य मूलक श्रेष्ठिनामा सोऽस्ति विद्यते । किंभूतः । सुशोभना जिनधर्मानुगामिनी दानादिधर्मेषु धीर्बुद्धिर्यस्य सः । उत्प्रेक्ष्यते— सौन्दर्येण वपुः प्रैरूपकेण तथा धर्मेण पुण्यकृत्येषु दृढाशयतया च अपरोऽन्यः कामदेव इव । शरीररमणीयतया अपरः कन्दर्पदेव एकः सुस्मरो विद्यते । अपरस्त्वयं तत्तुल्यत्वेन तथा धर्मकर्तव्यदाढयेन महावीरभगवतः द्वितीयश्रावकः कामदेवनामा यादृक्षोshareगेवायमप्यास्ते ॥
શ્લેાકાથ
અમદાવાદમાં શ્રાવકામાં શ્રેષ્ઠ એવા ‘લચંદુ' નામનાં આસ્તિક શ્રેષ્ઠિ હતા. તે શ્રેષ્ઠિ શરીરનાં સૌંદર્યંથી જાણે ખીજા કામદેવ અને પુણ્ય કાર્યોંમાં દ્રઢતાની દ્રષ્ટિએ જાણે ભગવાન મહાવીરના શ્રાવક બીજા કામદેવ ન હોય ! તેવા હતા. ૫૧૦ના
जृम्भकव्रजवज्जन्मोत्सवे शंभोर्वणिग्वरः ।
वर्ष वसुधाराभिस्तस्य सूरिपदक्षणे ॥ १०१ ॥
वणिग्वरः समयनैगमगणेष्वग्रणीः मूलाख्यश्रेष्ठीतस्य विजयसेनसुरेराचार्यस्य यत्पदं तस्य क्षणे प्रदानस्य महोत्सवे वसुधाराभिः सुवर्णरूप्यमाणक श्रेणिभिर्ववर्ष वर्षति स्म ।