SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३८ हीरसौभाग्यम् [सर्ग ९ श्लो० ८७-८९ लम्भितानामात्सुरनागराणां दम्भेन कपटेन कृत्वा । उत्प्रेक्ष्यते-तत्र मण्डपे किमुपेयुषी आगतेव ॥ શ્લેકાર્થ આચાર્ય પદ પ્રદાનના મહોત્સવ પ્રસંગે, અનેક આશ્ચયે જોવા માટે ઉત્સુક બનેલા ત્રણે લેક જાણે ચિત્રનાં બહાને મંડપમાં આવીને રહ્યા ન હોય ! ૮૭છા विस्तीर्णोऽपि स संकीणों बभूवानेकनागरैः । भाविभट्टारकागण्यपुण्याकृष्टैरिवागतैः ॥८८॥ स संवजननिर्मापितो विस्तार्णोऽप्यतिविपुलोऽपि सन् मण्डपो जनाश्रयः अनेकर्गणनातीतै गरैर्जनपदग्रामसंनिवेशपुरनगरजननिवहैः संकीर्णः अतिलधीयः स्थानमिव बभूव संजातः । किंभूतैर्नागरैः । आगतैः समेतैः दशदिगन्तादपि तत्रोपनतः । उत्प्रेक्ष्यते-भाविनो भविष्यतो भट्टारकस्य जयविमलसरेरगण्यैः सुरनरादिभिरपि जेतुमशक्यैः पुण्यैर्भागधेयैराकृष्टारिकाबद्धानीतरिव उपायांतः ॥ લેકાર્થ સંઘે બનાવેલ મંડપ અતિ વિશાળ હોવા છતાં પણ દશે દિશાથી આવેલા નાગરિકજનો વડે નાને–સંકીર્ણ બની ગયે, તે નાગરિકે જાણે ભાવી આચાર્યશ્રીજયવિમલસૂરિનાં અગણિત પુણ્યથી આકર્ષાઈને આવ્યા ન હોય ! u૮૮ निशि तारिवाकाशो भ्रियमाणः स निर्भरम् । तन्महोमिलितै रेजे पौरैर्जानपदैर्जनैः ॥८९॥ तस्य जयविमलप्रज्ञांशस्य पट्टप्रदानस्य महसि उत्सवे मिलितरितस्तत आगत्यैकीभूतैः । उत्सववाची महःशब्दः सकारान्तोऽप्यस्ति । यथा-'एन महस्विनमुपैहि सदारुगोच्वैः' इति नैषधे । नलान लयोवर्णने । 'महस्विनं तेजस्विनमनलमुत्सववन्तं च' इति तवृत्तिः । तथा 'महस्तेजस्युत्सवे द्य' इत्यनेकार्थः । पौरैर्नागरैर्जानपदैर्गुर्जरपाञ्चाललाटसौराष्ट्राधनेकनीवृजन्मभिर्जनौंके निर्भरं निचितं नीरन्ध्र भ्रियमाणः पूर्यमाणः स मण्डपो भाति स्म । कैरिव । यथा निशि तमिस्रायां रात्रौ तारकैरुपलक्षणात्रिखिलज्योतिः संतनिधियमाण आकाशो गगनं भाति । चन्द्रोद्योते च केचिदृश्यन्ते, केचिन्न । तमिस्रायां दर्शयामिन्यां तु सर्वेऽपि स्फुटा एव लक्ष्यन्ते, तस्मादत्र तमिस्रा रात्रिरेवो. पादीयते नापरा ॥
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy