________________
सर्ग ९ श्लो० ७९-८२]
सौभाग्यम्
લાકાથ
જેમ રાજસ વર્ષોં સમયનું ઉલ્લંઘન કરીને પોતાના નિવાસસ્થાન માનસરોવરથી નિકળીને કમલાના કુંજોથી મનેાહર પૃથ્વીપર રહેલાં જલાશયેામાં હ પૂર્વક વિહરે છે તેમ સૂરિવરે અનુક્રમે ચાતુર્માસિક પ્રતિક્રમણ કરીને ડીસા નગરથી વિહાર કર્યાં, પાછા
क्रमेणाहम्मदाबादपुरे सूरिः समीयिवान् । नभोनीरधिवर्णिन्याः प्रतीरे सुप्रतीकवत् ॥ ८० ॥
३५
यस्य
सूरिहरगुरुः क्रमेण ग्रामानुग्रामादिविहारपरिपाया अहम्मदाबाद इति नाम तादृशे पुरे नगरे समीयिवान् समाजगाम । किंवत् । सुप्रतीकवत् । यथा ईशानविदिक्संबन्धी अष्टमः सुप्रतीकनामा ककुप्कुञ्जरः नभस आकाशस्य नीरधैर्जलराशेर्वरवर्णिनी पत्नी । 'वशा सीमन्तिनी वामा वर्णिनी महीलाबला' तथा 'कर्पूर्वीपवती समुद्रदयिता धुन्यौ स्रवन्ती सरः' इति द्वितयमपि हैम्याम् । एतावता आकाशगङ्गा । 'नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे' इति रघुवंशे । तस्याः प्रतीरे तटे । 'तटं तीरं प्रतीरं च' इति हैम्याम् ॥
શ્લાકા
જેમ ઈશાનદિશાને દિગ્ગજ આકાશગ ંગાના તીરે આવે તેમ સૂરિવર ગ્રામાનુગ્રામ વિહાર કરતા અનુક્રમે અહમદાબાદ નામના નગરમાં પધાર્યાં. ૫૮૦ના
देवी निगदितागण्यभाग्यसौभाग्यशालिनः । स्वस्यान्तेवासिनस्तस्य कम्माङ्गजयतीशितुः ॥ ८१ ॥
सूरीन्दुः कामयांचक्रे दातुं सूरिपदं ततः ।
तनूजस्येव राज्यस्य धुरं धात्त्री पुरंदरः ||८२ ॥ ( युग्मम् )
ततोऽहम्मदाबाद गमनान्तरं सूरिहरविजयरजनिजानिः स्वस्यात्मनः आत्मीयस्य वान्तेवासिनः समीपे वसनशीलस्य शिष्यस्य कम्मानाम्नो व्यवहारिणः गृहीतव्रतत्वात्साधेर्वा अङ्गजः पुत्रः तथा यतीन मध्ये ईशिता मुख्यो गीतार्थत्वात् । अथ वा भाविनि भूतोपचारात निर्ग्रन्थानां नायकः तस्य विमलप्रज्ञांशस्य सूरिपदमाचार्यपद प्रदातुं कामायाँचक्रे अभिलषति स्म । किंभूतस्य । देव्या शासनतरुण्या निगदिते सूचिते कथिते अनण्ये अप्रमेये वाङ्मनसगोचरीकर्तुमशक्ये भाग्यं पुण्यं तथा सौभाग्यं सुभगता विश्ववाल्लभ्यं ताभ्यां शालते शोभते इत्येवंशीलस्य । क इव । धात्रीपुरंदर इव । यथा