SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३४ हीरसौभाग्यम् [सर्ग ९ श्लो० ७७-७९ કલેકાથ જેન ભવનપતિ, વ્યંતર, તિષી અને વૈમાનિક એ ચારે નિકાયના દે. સમવસરણમાં બિરાજમાન શ્રીજિનેશ્વર ભગવંતને વંદન કરવા માટે આવે તેમ ડીસા નગરમાં બિરાજમાન શ્રીહીરવિજયસૂરિજીને અણહિલ્લપુર પાટણ આદિ નગરના સંઘ हनार्थे मान्या. ॥७॥ प्रबोधयन्सुदृक्पद्मान्कुदृक्पङ्काश्च शोषयन् । स्पर्धयेव रवेः सूरेः प्रतापो व्यानशे दिशः ॥७८॥ सूरहीरविजयवाचंयमेन्दोः प्रतापो दिशो दशापि हरितः प्रति व्यानशे व्याप्नोति स्म । उत्प्रेक्ष्यते-रवेः सूर्यस्यार्थान्मार्तण्डचण्डप्रतापस्य स्पर्धया संघर्षण मनस्यसूयया वा । किं कुर्वन् । सुदृशः सम्यक् दृष्टय एव पदमाः कमलानि प्रबोधयन् प्रतिबोधबन्धु. रान विदधत् । सुदर्शनिनः कुर्वन् । सूर्योऽपि पदमानि प्रबोधयति विकाशयति । च पुनः किं कुर्वन् । कुत्सिताः शाक्यादिमतोपादानपटलसंवलिता दृशः दृष्टयो येषां सिद्धान्तविरुद्धवादित्वाद्दष्टा दृष्टयो येषां ते कुदृशः कुवादिनः कुमतान्येव पङ्का कर्दमास्तान शोषयन् । सूर्योऽपि पङ्क शोषयति ॥ લોકાર્થ સમ્યગ દ્રષ્ટિ રૂપ કમલોને પ્રતિબંધ કરતા અને બૌદ્ધાદિ કુવાદિઓરૂપ કાદવનું શેષણ કરત સૂરિવરને પ્રતાપ જાણે સૂર્ય સાથે સ્પર્ધા કરતે ન હોય ! તેમ દશ દિશાઓમાં ફેલા. ૭૮ प्रतिक्रम्य चतुर्मासी स क्रमाद्यहरत्ततः । हर्षाद्वर्षा इवोल्लङ्घय मानसादिष्टमानसः ॥७९॥ स सूरिः क्रमादनुक्रमेण विजयदशमीदीपालिकादिनगमनपरिपादया चतुर्णा मासानां समाहारश्चतुर्मासी वार्षिकचतुर्मासिकम् । अथ वा वर्षा शरलक्षणयो भ्यां मासाभ्यां कृत्वा चतुर्मासी, तां प्रतिक्रम्य । एतावता कार्तिकचतुर्मासिकप्रतिक्रमण प्रणीय चतुर्मासी पूर्णीकृत्य वा ततस्तस्माडीसानगराधहरत् विहारं कृतवान् । इत्यर्थः । क इव । इष्टमानस इव । यथा इष्टमानसो राजहंसः वर्षा वर्षासमयमुल्लङ्घ मानसात् स्वावास. कासारतः हर्षादानन्दाद्विहरति पृथिवीपीठपानीयप्रपूर्णानेकपङ्कजनिकुञ्जमञ्जलजलाशयेषु स्वरं विहरति । 'नृपमानसमिष्टमानसः' इति नैषधे ॥
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy