SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सर्ग ९ श्लो० ७५-७७ हीरसौभाग्यम् ३३. सूरीन्दुर्वसतेमध्येध्यानस्थानादथागमत् । प्राग्गिरेः कन्दरकोडाद्भास्वानिव नभोङ्गणम् ॥७५॥ अथ शासनदेवतागमनप्रश्नकथनध्यानविरमणानन्तरं सूरीन्दुहीरविजयसरिचन्द्रो ध्यानस्थानात्प्रणिधानविधानास्पदावसतेरुपाश्रयस्य मध्ये उत्सगे आगमदागतः । क इव। भास्वानिव । भानुमाली यथा प्राग्गिरेः प्राचीनपर्वतस्य कन्दरस्य । कन्दरशब्दस्त्रिलिङ्ग। 'पिठरप्रतिसरपात्रकन्दराः' इति लिङ्गानुशासने । क्रोडात् हृदयात् । मध्यादित्यर्थः । अथ षा क्रोडादुत्सङ्गान्नभोङ्गणं गगनाजिरे समागच्छति । શ્લોકાઈ * જેમ સૂર્ય પૂર્વાચલની ગુફાનાં મધ્યભાગમાંથી ગગનાંગણમાં આવે તેમ હીરવિજયસૂરિશ્ચન્દ્ર ધ્યાનભૂમિ-સમાધિસ્થાનમાંથી ઉપાશ્રયની મધ્યમાં પધાર્યા. ૭પ प्रीतिप्रहूवैः प्रभुस्तत्र परिवत्रे व्रतिवजैः । सुनासीर इवास्थानीमासीनः स्वर्गिणां गणैः ॥७६॥ तत्र मौलोपाश्रये प्रभुः सूरीश्वरः प्रीत्या प्रमोदेन गुरुशिष्यस्नेहेन धर्मस्य हार्देन प्रहूवैनम्रीभूतैः पदाम्भोजे भ्रमरीभावं प्राप्तैतिव्रजैः श्रमणपुङ्गवगणैः परिवत्रे परिवृतः । क इव । सुनासीर इव । यथा आस्थानी सुधर्माभिधानां सभामासीन आश्रित्य तिष्ठन् । उपविष्ट इत्यर्थः । सहस्रलोचनः स्वर्गिणां गीर्वाणानां गणैर्वृन्दैः परिबियते ॥ Ram: જેમ સુધર્મા સભામાં રહેલે ઈન્દ્ર દેવોના સમુહથી શોભે તેમ ઉપાશ્રયમાં ભક્તિભાવથી નમ્ર બનેલા સાધુઓનાં સમુહથી હીરવિજયસૂરિજી શોભતા હતા. આ૭૬ાા तत्रागमन्पत्तनादिसंघास्तुं वन्दितुं तदा । स्वर्गादिदेवाः समवसरणस्थं यथा जिनम् ॥७७॥ तत्र डीसाभिधे नगरे पत्तनमणहिल्लपुटभेदनमादिर्येषां तेषां नगराणां संघाः श्राद्धगणास्त ध्यानोत्थित सूरिं वन्दितुनमस्कर्तुमागमन्नागच्छन्ति स्म । यथा इवार्थे । के इव । देवा इव । यथा स्वर्गों देवलोक आदिः प्रथम येषां तेषां भवननगरज्योतिर्विमानानां देवा भवनपतिवानमन्तरज्यौतिष्षकद्वादशकल्पवासिनः सुराः समवसरणे तिष्ठतीति समवसरस्थस्तं जिन तीर्थकरं नमंसितुमायान्ति ॥ हि, सौ. ५
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy