________________
४४४
हीरसौभाग्यम्
[सर्ग १३ श्लो० २०३-२०५
શ્લેકાર્થ
તે બંને દુતે ભકિતપૂર્વક લલાટ પર અંજલિ કરીને, અર્થાત નમસ્કાર કરીને આ પ્રમાણે બેલ્યા, તે જાણે પિતાના બંધુ સૂર્યની પાસેથી જેમને ઉદય પ્રાપ્ત થયે છે, (સૂર્યની જતિ પામીને ચંદ્રને ઉદય થાય છે) એવા મુખરૂપી ચંદ્રને મળવા માટે આવેલા જાણે બે કમલ ન હોય ! ! ૨૦૩
आदिश्यतां देव निदेश्यमित्थं निर्दिश्य तौ संश्रयतः स्म तूष्णीम् । धाराधरस्येव ऋतोविरामे नभोम्बुपाम्भोदमुहूच्छकुन्तौ ॥ २०४॥
हे देव, निदेश्यं कथनार्ह वक्तव्यमादिश्यतां प्रसाद्यताम् । इत्यमुना प्रकारेण निर्दिश्य विज्ञाप्य तौ दूतौ तृष्णीं मौनं संश्रयतः भेजाते । काविव । नभोम्बुपाम्भोदसुहृच्छ कुन्तौ यथा धाराधरस्य ऋतोर्वर्षाकालस्य विरामे व्यपाये । शरत्समये इत्यर्थः । चातकमयूर. विहंगमौ मौनमाश्रयेते ॥
શ્લોકાઈ
“હે દેવ, આ૫ આદેશ કરે,” આ પ્રમાણે કહીને જેમ શરદકાલમાં ચાતક અને મયુર પક્ષી મૌન રહે તેમ મૌન રહ્યા. એ ૨૦૪
भूमानिमावित्यवदत्ततोऽमी कथं समीयुः पथि कीदृशाश्च । तावप्यवक्तां तमुपागतं स्वर्बलिद्विषो हन्तुमिवाब्जनाभम् ॥ २०५॥
ततो दूतोक्तेरनन्तर भूमानकब्बरसाहिरिमौ दूतौ प्रतीत्यमुना प्रकारेण अवदद्वभाषे । इति किम् । हे मौन्दीकमालौ, अमी सूरयः पथि मार्ग कथ केन प्रकारेण समीयः समागताः । मुद्गलम्लेच्छजातित्वाज्जैनमार्गानभिज्ञस्वादयं प्रश्नः । च पुनः । कीदृशाः किमाचाराश्च वर्तन्ते । अपि पुनस्तौ दूतौ तं भूपं प्रति अवक्तां कथयतः स्म । तमुत्प्रेक्ष्यतेबलिनः पराक्रमचतुरङ्गचक्रादिक बल भुजवीर्य चमूश्च विद्यते येषां ते बलवन्तो ये द्विषो वैरिणः तथा बलिनामा पातालाधिपः सुरासुरसेव्यमानो वदान्यमौलिः । यन्नाम्ना पातालं बलिसमेति प्रसिद्धम् । स एव रिपुर्दानवेन्द्रत्वात् तांस्त वा हन्तु यमातिथी