________________
__ सर्ग १३ श्लो ० २०२-२०३ ] हीरसौभाग्यम्
४४३
% 3D
तैः शासितुः शासनतः पृथिव्या हूतौ पुरस्तादुपसेदतुस्तौ । वसुधराशेषविशेषवृत्तिं चिद्गोचरीकर्तुमिवास्य नेत्र ॥ २०२ ॥
तौ दूतौ पुरस्तात्साहेरग्रे उपसेदतुः आगतवन्तौ । किंभूतौ । पृथिव्या भूमेः शासितुः पालयितुः पातिसाहेः शासनत आदेशात्तैः सभ्यः सभासद्भिः इतावाकारितौ उत्प्रेक्ष्यतेवसुंधरायाः समस्तक्षितिमण्डलस्याशेषां समयां विशेषवृत्ति न्यायान्यायकारिशिष्टाशिष्ठमित्वामित्वस्वभावोदन्तस्रचयित्रीं वाती चिद्गोचरीक ज्ञानविषयतां विधातुम् । ज्ञातुमित्यर्थः । अस्याकब्बरसाहेने त्रे नयने इव । यथा नेत्राभ्यां कृत्वा जनेन सर्वमप्यालोक्यते तथा दूताभ्यां राज्ञा परमण्डलोदन्ताद्यखिल विज्ञायते । 'चस्लोचना हि राजानः' इति श्रुतिः । यदुक्तम्-'चरैः पश्यन्ति राजानः सुहृदा व्यवहारिणः । देवाः पश्यन्ति ज्ञानेन सर्वेऽन्ये चर्मचक्षुषा ।।' 'वणिक्पुत्रैर्महेश्वराः' इति पाठः । अथ वा प्रतिभाविषय विधातु चिच्छब्देन बुद्धिरपि । 'प्रेक्षाचिदुपलब्धयः' इति हैम्याम् ॥
કાર્ય
રાજાની આજ્ઞાથી સમાજને વડે બેલાયેલા તે બંને દુતે બાદશાહની સમક્ષ ઉપસ્થિત થયા. તે જાણે સમસ્ત પૃથ્વીના વૃત્તાંત જાણવા માટે બાદશાહનાં આ બે નેત્રો ન હોય ! કહ્યું છે કેઃ “રાજાએ દુતે વડે, વ્યાપારીઓ મિત્રે વડે, દેવે જ્ઞાન વડે અને બાકીનાં સર્વજને ચર્મચક્ષુએ વડે જુએ છે.” મે ૨૦૨ /
मुख मृगाङकं मिलितुं स्वबन्धोर्लब्धोदयं वारिरहे इवैते । पाणी प्रणीय प्रणयेन मध्येगोधीति धात्रीशमवोचतां तौ ॥ २०३ ॥
तौ दूतौ धात्रीशं साहिं प्रति इत्यमुना प्रकारेण अवोचतां वदतः स्म । किं कृत्वा । प्रणयेन स्वस्वामित्वादिसंबन्धस्नेहेन । भक्तेनेत्यर्थः । अथ वा आदेशयाचनार्थम् । 'प्रणयः स्नेहयात्रयोः' इत्यने ार्थः । मध्येगोधि भालान्तराले पाणी हस्तौ प्रणीय कृत्वा । ललाटेऽञ्जलि विधायेत्यर्थः । उत्प्रेक्ष्यते-स्वस्यात्मनो बन्धोः सकाशाल्लब्धः संप्राप्त उदयो येन । सूर्यज्योतिरधिगत्य चन्द्रोऽभ्युदयतीति कविसमयः । यथा रघुकाव्ये'पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः इति । तादृशं मुखं मृगाङ्क घदनमेव चन्द्र मिलीतुमेते समायाते वारिरहे पदमे इव ॥