________________
४४२
हीरसौभाग्यम्
[सर्ग १३ श्लो० २००-२०१
शशंस सभ्यानथ पार्थिवेन्दुरानेतुमेतानिह केन जग्मे । तेऽप्यूचुरुर्वीन्द्रमजय्यवीर्यमिवावतीर्ण भुवि कार्तवीर्यम् ॥ २०० ॥
अथ स्थानसिंहस्य कथनानन्तरं पार्थिवेन्दुः राजराजः सभ्यान् स्वसभासदः पुरुषान प्रति शशंस कथयति स्म । किं शशंस तदेवाह-एतान् सूरीन्द्रानिह मत्पाश्वे आनेतुमाकारयितु केन जग्मे गतम् । ततः ते सभ्या अपि उर्वीन्द्र वसुधावासवम् ऊचुर्बभाषिरे । उत्प्रेक्ष्यते-भुवि पृथिव्यामवतीर्णमुत्पन्न तथा अजय्यं परैर्जेतुमशक्यं वीर्य पराक्रमो यस्य तादृशं कार्तवीर्य बाहुसहस्रार्जुनमिव अजय्यबलत्वे । 'कारागृहे निर्जितवासवेन लङकेश्वरेणोषितमा प्रसादात्' । तस्य सादृश्यं वीर्यातिशयात् ॥
શ્લોકાથ
ત્યાર પછી રાજરાજેશ્વરે સભાજને ઉદ્દેશીને કહ્યું કે “આ આચાર્યને મારી પાસે લાવવા માટે કોણ ગયું હતું ?” ત્યારે સભાજનેએ પૃથ્વી પતિને આ પ્રમાણે કહ્યું: “હે સ્વામિન અજેય પરાક્રમવાળા કાર્તિકસ્વામી પૃપી પર ઊતરી આવેલા ન હોય તેવા– મે ૨૦૦ |
मौन्दीकमालाविति नामधेयौ निदेशतः शासनहारिणौ वः । इतोऽजिहातामिब मूर्तिमन्तौ लेखौ वलेखाविव कामचारौ ॥ २०१॥
हे प्रभवः, वो युष्माक निदेशतः आदेशमङ्गीकृत्य एको मौन्दी अपरः कमाल इति नामधेयावभिधानौ शासनहारिणौ दूतौ यवनमुद्गलजातिषु मध्ये मेवडा इति संज्ञको इतो युष्माक समीपादजिहाताम् गतवन्तावास्ताम् । उत्प्रेक्ष्यते-मूर्तिमन्तौ मनुष्यवपुर्भाजौ लेखौ काङ्गलौ स्फुरन्माने इव पुनरुत्प्रेक्ष्यते । मूर्तिमन्ती लेखौ देवाविव देवा हि न केनचिच्चक्षषा .क्ष्यन्ते । अतः पार्थिवशरीरभाक्त्वाद्विलोचनगोचरौ । किलक्षणौ । काम स्वेच्छया अतिशयेन च दिव्या देवगत्या चरणं व्रजन चारौ गमन ययोस्तौ ॥
શ્લોકાઈ
“મીંદી અને કમાલ નામના બે મેવાડી દૂતો આપની આજ્ઞાથી અહિંયાથી સૂરીજીને બેલાવવા માટે ગયા હતા. તે જાણે દેવે જેવા શીઘ્રગતિવાળા મૂર્તિમંત લેખે (ग) नाय !" ॥ २०१॥