________________
सर्ग १३ श्लो० २०५-२०६]
हीरसौभाग्यम्
४४५
कर्तु स्वर्गादुपेतं देवलोकामावागतम् । यदुक्त चम्पूकथायाम्-'कथं च स देशः स्वर्गान्न विशिष्यते । यत्र गृहे गृहे गौर्यः स्त्रियः महेश्वरो लोकः । सश्रीका हरयः' इति । 'गौराङ्गयः पार्वती च । महेभ्यः शिवश्च । शोभायुक्तोः हस्तश्च । लक्ष्मीयुक्तः कृष्णः' इति तद्वृत्तिः । अतः स्वर्गस्थत्वम् । अब्जनाभं नारायणमिव । अब्जवन्नाभिर्यस्य । पक्षे अब्जं नाभौ यस्येति व्युत्पत्तिमात्रम् । तत्त्वतस्त्वभिधानमेव ॥
પ્લેકાર્થ
બલવાન બલિ નામના દૈત્યને હણવા માટે સ્વર્ગમાંથી પૃથ્વી ઉપર આવેલા જાણે વિષ્ણુ ન હોય તેવા અકબર બાદશાહે ફતેને આ પ્રમાણે પ્રશ્ન કર્યો કે “હે દૂત, આ આચાર્ય માર્ગમાં કેવી રીતે આવ્યા અને તેઓને કેવા પ્રકારનો આચાર્ય છે?” મે ૨૦૫ છે
चूर्णैरिव स्वक्रमपद्मपांसुभिः प्राचीनसूरिप्रकरैः प्रतिष्ठिताम् । सभाजयन्तः प्रतिमामिव क्षमा क्रमाम्बुजाभ्यां पथि संचरन्त्यमी ॥२०६॥
हे देव, अमी सूरयः स्वाभ्यां क्रमाम्बुजाभ्यां पथि चरणकमलाभ्यां मागें संचरन्ति सम्यरीत्या प्रचलन्ति । उत्प्रेक्ष्यते-प्रतिमां परमेश्वरमूर्ति मिव क्षमां क्षोणी सभाजयन्तः पूजयन्त इव । सभाजनशब्दः पूजाथेऽपि । यथा नैषधे-'सभाजन तत्र ससर्ज तेषां सभाजने पश्यति विस्मिते सा' इति । 'सभाजनं पूजाम्' इति तवृत्तिः । तथा क्रियाकलापेऽपि-'समाजानार्थे सभाजयति'। प्रतिमां किंभृताम् । प्राचीनसरिप्रकरैः पूर्वाचार्य निचयैः स्वक्रमपमानामात्मनां पादारविन्दानां पांसुभिः रजोभिः कृत्वा प्रतिष्ठिताभ् । उत्प्रेक्ष्यतेचूर्णैर्वासयोगैरिव पूज्यतया स्थापिताम् ॥
શ્લેકાર્થ
હે દેવ, આ આચાર્ય પિતાનાં ચરણકમલથી માર્ગ પર મંદમંદ ચાલતા હતા. તે જાણે પૂર્વાચાર્યોના સમૂહ વડે પિતાનાં ચરણકમલની રજરૂપી વાસસૂર્ણ વડે પ્રતિષ્ઠિત કરેલી એવી પૃથ્વીને પરમેશ્વરની પ્રતિમાની જેમ જાણે પૂજતા नाय!" ॥२०६॥